________________
छो० १]
द्रव्यैकान्तनित्यत्वखंडनम्
सर्वथानित्यमस्तु । नचैवं तंतूनामेव पटत्वात्तंतौ पट इति प्रत्ययो न स्यादिति वाच्यं, फलबलेन विलक्षणसंयोगवत्त्वरूपपटत्वादिविशिष्टाधारतावच्छेकत्वस्य विलक्षणसंयोगत्वरूपतंतुत्वे स्वीकारात् । अत एव न तन्तुपटपदयोः पर्यायताऽपि, विलक्षणसंयोगवत्त्वरूप शक्यतावच्छेकभेदात् । ' तंतुसंयोगात्पट उत्पन्न' इति व्यवहारस्तु भ्रान्त एव । 'पट उत्पन्न' इत्यादि प्रतीतिस्तु पटत्वादिघटकसंयोगोत्पादमात्रमवगाहते। ‘पट' इत्यत्रैकत्वं पुनरौपचारिकम् । ' तंतुः पट' इति प्रतीतिस्तु 'वृक्षो वनमि'तिवदेव नोदेति । 'पटस्तंतव' इति प्रतीतिस्त्वेकत्वधर्मितावच्छेद क क बहुत्वप्रकारिका सतीच्छाविशेषमपेक्षते । 'एकत्र द्वयमिति न्यायेन तदन्वयबोधापादने शब्दाऽसाधुत्वमेव वा । अधिकः पूर्वपक्षो मत्कृतन्यायवादार्थेषु बोध्यः ।
अत्र ब्रूमः । पर्यायत्वावच्छेदेनैव द्रव्यस्य कारणता सामान्यतो गृहीतेत्यसमानजातीयद्रव्यपर्यायरूपस्य घटस्य कथं न जन्यत्वम् ! अन्यथा कपालस्यैव घटत्वात्कपालरूप - घटरूपयोर्भेदो न स्यात् । किंचैवं दंडादौ घटसाधनताज्ञानेन प्रवृत्तिर्न स्यात् । अथ विजातीयसंयोगत्वमेव घटत्वं, युक्तव्चैतत्, कथमन्यथा घटत्वस्य जातित्वं मृत्त्वस्वर्णत्वादिना सांकर्यात्, न च कुलालादिजन्यतावच्छेदकतया मृत्त्वस्वर्णत्वादिव्याप्यं नानाघटत्वमेव स्वीकर्त्तव्यं, अनुगतधीस्तु कथंचित्सौसाश्यात्, घटपदं त्वक्षादिपटवन्नानार्थकमिति वाच्यम्, कुम्भकारादेर्विजातीयकृतिमत्त्वेन तत्त्वे घटत्वस्यैवैकत्वोचित्यादिति चेत् न, एवं सति घटवत्यपि भूतले 'संयोगेन घटो नास्तीति प्रतीतेः प्रमात्वापातात्, 'घटः पटसंयुक्त' इति प्रतीतेरप्रमात्वापाताच्च । वस्तुतोऽवयवावयविनोर्भेदाभेद एव सार्वजनीनप्रत्ययाध्वन्यध्वनीन इति दिए ।
अथानित्यत्वैकांतपक्षेऽपि दोषमाहुः - स्यातामिति । एकान्तनाशे = नित्यत्वाऽसंभिन्ननाशे । कृतस्य नाशो=अकृततुल्यता । बौद्धमते हि वस्तुनः सर्वस्य क्षणिकत्वादुत्पत्तिसमनन्तरमेव घटस्य नाश इति जलाहरणादिपर्यायाणामाघारेण केन भवितव्यम् । तथाऽकृतस्यागमः = फलकालोपस्थितिः । यद्धि कुम्भकारादिना घटादिकं कृतं तेन तु दुर्जनमनः प्रणयपरंपरावत्तदानीमेव दध्वंसे, तथा च जलाहरणादिक्रियासु व्याप्रियमाणेन तेनाऽकृतेनैवोपस्थातव्यमिति दूषणद्वयमिदं बौद्धबुध्युपनीतकाकुव्याकुलीकरणप्रवणं प्रसज्येतेति भावः ।
१३
[क्षणिकवादिबौद्धस्य पूर्वपक्षः ]
इदमप्यत्र विचार्यते । किं क्षणभिदेलिममेव भुवनमन्यादशं वा ? तत्र बौद्धः - “मुद्गरादिसमवधानदशायां घटादेर्यत्स्वरूपं वरिवर्त्ति तेन प्रागासीनं न वा ? आद्येऽनायासेनैव सिद्धा क्षणभंगुरता भगवती । अन्त्ये स्वभावहान्यापत्तिः । किंच तत्तत्क्षणावच्छेदेन तत्तद्वटादेः प्रध्वंसानाधारत्वकल्पनामपेक्ष्य वा तत्तत्क्षणावच्छेदेन तत्तद्वटादेः प्रध्वंसप्रतियोगित्वस्य तत्तत्क्षणानां तत्तद्घटध्वंसाधारत्वस्य वा कल्पनैव लघीयसी । न चैवं उत्पत्तिक्षणेऽपि नाशप्रसंग: । असतो नाशाऽयोगात् । वस्तुतस्तत्तत्क्षणेष्वेवास्तु घटत्वपटत्वादिकम् । न च संकरो, वासनाकृतविशेषेण