________________
स्याद्वादरहस्ये स्यागंतुकोपाधिरूपस्य सदसद्विकल्पग्रासाच्च (५) नापि षष्टः सत्यामपि जिज्ञासायां कारणव्यापारात्प्राक्कार्यानुपलम्भात् , जिज्ञासाया ज्ञानमात्र प्रत्यहेतुत्वाच्च । जिज्ञासितबोध प्रति जिज्ञासाया हेतुत्वे जिज्ञासां विनापि तत्राऽजिज्ञासितबोधापत्तेश्च (६) । नापि सप्तमः, अनावि
र्भावस्यैव तिरोधानपदार्थत्वेऽद्यापि नियतनिर्वचनाऽपरिचयात्, अन्यस्याभ्युपगंतु दुःशकत्वात् (७) । नाप्यष्टमः, अनिर्वचनात् । तस्मात् प्रागसदेव कार्य सामग्रीसमवधानात्संपद्यत इति यौगाः संगिरन्ते ।
[सदसत्कार्यवादस्थापनोद्यमः] सांख्यः सत्कार्यवादं सदसि निगदतु स्कंधमास्फाल्य तावत् । स्वैरासत्कार्यवादी प्रभवतु स पुनस्तावदेवात्र योगः ॥ यावद् दुर्वादिवृन्दद्विरदमदभिदकेसरिकीडनैक
प्रागल्भ्याभ्यासभाजो जिनसमयविदो ध्यानमुद्रां भजन्ते ॥१॥ वासनामथ मुश्चन्तु । समये सांख्ययोगयोः । सदसत्कार्यवादाय प्रयते सावधानधीः ॥२॥ तथाहि-युगपत्प्रवृत्ताभिरन्वयशक्तिभिर्यथा पर्यायनिष्पादिका व्यक्तीस्तास्ताः संक्रामतो द्रव्यस्य सद्भावनिबद्ध एव प्रादुर्भावस्तथा क्रमप्रवृत्ताभिः पर्यायनिष्पादिकाभिर्व्यतिरेकव्यक्तिभिस्ताभिस्ताभिर्युगपत्प्रवृत्ता अन्वयशक्तिः संक्रामतो द्रव्यस्यासद्धावनिबद्धोऽपि, द्रव्यार्थिकेन सर्वस्य सतोऽपि पर्यायार्थिकेनाऽसत्त्वात् । तदुक्तं
__ एवंविध सहावे दव्वं दवट्ठपज्जयदेहिं । सदसब्भावणिबद्धं पाउब्भावं सदा लहदि ॥ त्ति [प्रव०सार-२-१९]यथा च व्यतिरेकव्यक्तयो यौगपद्यप्रवृत्तिमासाद्याऽन्वयतिरेकव्यक्तित्वमापन्ना द्रव्यं पर्यायीकुर्युरिति सिद्धान्तः ।
अथ घटस्य कारणव्यापारात्प्राक्सत्त्वे चाक्षुषं स्यादिति चेत् ? भवत्येव मृत्वेन रूपेण । घटत्वेन स्यादिति चेन्न, तेन रूपेण प्रागसत्त्वात् । कपालस्य घटेऽविष्वग्भावेन हेतुत्वादपि प्राक्सत्त्वासिद्धिः । अथ घटप्रागभावसत्त्वे घटसत्त्वं कथमिति चेत् ? तयोरविरोधादिति गृहाण । कथमितिचेदस्तित्वनास्तित्वयोरेकपरिणामात् ।
स्यादेतत्-विजातीयसंयोगस्य जन्यसाक्षात्कारत्वं जन्यतावच्छेदकमस्तु न तु जन्यद्रव्यत्वमनंतद्रव्यप्रागभावप्रध्वंसाभावकल्पनागौरवात् । न च विजातीयसंयोग विनापि गुणादौ द्रव्यसाक्षात्कारोदयाव्यभिचारो, द्रव्यनिष्ठलौकिकविषयतायाः कार्यतावच्छेदकसंबंधत्वेन तदुद्धारात् । एतेन 'द्रव्यसाक्षात्कारत्वस्य तत्कार्यतावच्छेदकत्वे मूर्तसाक्षात्कारत्वादिना विनिगमनाविरहः, स्वाश्रयविषयतासंबन्धं कार्यतावच्छेदकतावच्छेदकीकृत्य द्रव्यत्वादेस्तथात्वेऽपि मूर्तत्वादिना स एव दोष' इत्यपास्तं, परस्यापि चक्षुःसंयोगजन्यतावच्छेदकत्वेनैतस्यैव श्रेयस्त्वात् । इत्थं च द्रव्यमानं
१.-एवं विधं स्वभावे द्रव्य द्रव्यार्थपर्यायार्थाभ्याम् । सदसद्भावनिबद्ध प्रादुर्भाव सदा लभते ॥ इति सं.