________________
लो० १]
कृतनाशदोषद्वितीयव्याख्या
हारौपयिकं तत् तद्धर्मावच्छेदेनैवाभेद नान्वेती'ति व्युत्पत्तेरिति चेत् ? न, एतन्नियमस्य विशिष्य विश्रामादिति दिग् ।
यद्वा कृतस्य = कुम्भकारादिप्रयत्नस्य, नाशः = उपचानाव्याप्यत्वं अकृतस्य = कुंभकारादिप्रयत्नाऽभावस्य, आगमो=ऽनुपधानाऽव्याप्यत्वं च स्यातां, वस्तुनः सर्वथानित्यत्वात्, तथा च
व्यवहारबाधः इति भावः ।
११
[सांख्यसत्कार्यवादस्थापन - निरसने]
अत्रेदं विभाव्यते - सांख्यैर्हि सदेव वस्त्वनुमन्यते । तदुक्तं - " असदकरणादुपादानग्रहणात् सर्वसंभवाऽभावात् । शक्तस्य शक्य करणात्कारणभावाच्च सत्कार्यम्” । [ सांख्यकारिका-९ ] इति । असतः शशविषाणादेः कर्तुमशक्यत्वात्सत एव सत्करणस्वाभाव्यात् । उपादानेन ग्रहणात्संबंधात् नह्य सतः संबंधोऽस्ति । असंबद्धस्यैव करणमस्त्विति चेन्न, सर्वसंभवाभावात्, असंबद्धत्वाऽविशेषे हि सर्वे सर्वस्माद्भवेयुः, नचैवमिष्टमिति । तथाऽशक्तस्य जनकत्वेऽतिप्रसङ्गात् शक्तस्य जनकत्वं वाच्यं, शक्तिश्च कार्यस्य प्रागसत्त्वे नियता न स्यादितोऽपि कारणात्प्राक्कार्यस्य सत्त्वमुपेयम् । तथा कारणभावात्तादात्म्यादपि सत्कार्यमवयविनोऽवयवमेदाऽप्रतीतेरिति । तदयुक्तं यतो घटश्चेत्कारणव्यापारात्प्रागप्यस्ति तर्हि तदानीमुपलम्भप्रसङ्गः । अथानाविर्भावान्नोपलभ्यत इति चेत् ! कोऽयमनाविर्भाव: : उपलब्ध्यभावो वा (१), अर्थक्रियाकारिरूपाभावो वा (२), व्यंजकाभावो वा (३), योग्यत्वाभावो वा (४), कालविशेषविशिष्टत्वाभावो वा (५), जिज्ञासाभावो वा ( ६ ), तिरोधानं वा (७), अन्यद्वा (८) ?
नाऽऽद्यो, यस्यैवाक्षेपस्तस्यैवोत्तरे घट्टकुटीप्रभातापातात् । अथ घटानुपलब्ध्याक्षेपे संस्थानाद्यनुपलभस्योत्तरत्वभिति चेत् ? न, संस्थानज्ञानस्य संस्थानिज्ञानात्पूर्वं नियतमनपेक्षणात्तस्यापि प्राक्सवे उपलब्धेरापाद्यत्वादसत्वे वक्ष्यमाणदोषानुषङ्गाच्च ॥ १ ॥ न द्वितीयः, अर्थक्रियाकारिरूपस्य प्रागसत्त्वेऽसत्कार्यवादापातात् ||२|| अत एव न तृतीयोऽपि, प्राथमिकोपलब्धौ कुविन्दादिसमुदायस्योपलब्धिमात्रे वा विजातीयसंयोगस्य कारणत्वेऽपि तयोः प्राक्सत्त्वावश्यकत्वात् । आविर्भूतयोरेव तयोस्तथात्वमिति चेत् न, आविर्भावस्यापि सदसद्विकल्पग्रासात् । विजातीयसंयोगाद्याविर्भावस्य प्राक्सत्त्वेऽपि विजातीयसंयोगेन समं तस्य संवधो नासीदित्यप्यसमीक्षिताभिधानं, तद्दोषानतिवृत्तेः । एतेन विषयिताविशेषसंबंध एव घटत्वादेर्विजातीयसंयोग जन्यतावच्छेदकतावच्छेदको ऽस्त्वनंतप्रागभावप्रध्वंसाद्य कल्पनलाघवादित्यपि परास्तम्, तदभावेऽपि घटवावेनिर्मुक्तविषयिताकघटसाक्षात्कारापत्तेश्च । किं च, घटादेः कुभकारादिव्यंग्यत्वे जन्यत्वव्यवहारो निरालंबनः स्यादन्यथा तरुणतरणिकिरणनिकराभिव्यज्यमाने घटे तज्जन्यत्ववहारापत्तेः (३) । नापि तुरीयः, महत्त्वत्समानाधिकरणोद्भूतरूपवत्त्वादिरूपायाश्चाक्षुषादियोग्यतायाः प्रागुक्तदिशा प्रागपि सत्त्वात् (४) । नापि पंचमः, कालविशेषस्य कारणत्वेनानतिप्रसंगे एककारण परिशेषापत्तेः, विशेष