________________
स्थावादरहस्ये प्रदेशत्वसंज्ञया तदनाश्रितपरमाणूनाञ्च पृथकत्वं कुतोऽपि न घटेत । किंच प्रदेशेषु किं प्रविभक्तत्वं ? न तावदन्यत्वं, एकद्रव्यस्यैव प्रदेशानां तादृशत्वात् । नापि पृथक्त्वं, तस्य प्रविभक्तस्कंधकत्वरूपतयाऽन्योन्याश्रयात्, तथाहि-प्रदेशानां प्रविभक्तत्वसिद्धौ प्रविभक्तप्रदेशत्वरूपं स्कंधानां पार्थक्यं सिध्यति, सिद्धे च स्कंधानां प्रविभक्तत्वे प्रविभक्तस्कंधकत्वरूपं प्रदेशानां पार्थक्यं सिध्यतीति । अथ पृथक्त्वं जात्यंतररूपमेवेति चेत् ! तर्हि भेदाभेद एव तादृशः किमिति नास्थीयते ! धर्मिधर्मोभयभासकसामग्रया एव तद्भासकत्वेन व्यंजकगवेषणविश्रामात् । एतेन पृथक्त्वव्यवहाराऽसाधारणकारणं तदित्यप्युपेक्षितम् , कारणतावच्छेदकरूपपरिचयं विना तादृशनिर्वचनाऽसंभवाच्च । यत्तु विभिन्नाश्रयाश्रितत्वमेव पार्थक्यं, विभिन्नाश्चाश्रयाः स्कंधानां देशा इव देशानां स्कंधा अपि संभवंति, तन्तौ पट इतिवत्पटे तंतव इति प्रतीतेरप्यबाधितत्वात् । अन्यत्र रूपादिप्रतियोगिकत्वविशिष्टभेदाभेदस्याऽऽधारतात्वेऽप्यत्रान्यतरीयत्वविशिष्टस्यैव तस्य प्रतीतिबलेन तथात्वकल्पनात् । तदुक्तं-उदयनेनापि “संविदेव हि भगवती वस्तूपगमे नः शरणमिति"। परमाणूनामपि शुद्धस्य स्वस्यैव स्वाश्रयत्वं, भाविभूताश्रयसंभवेनैव वा तदाश्रितत्वमक्षतमन्यथा द्रव्यादिचतुष्टयस्य सार्वत्रिकत्ववचनव्याघातापातादिति । तच्चिन्त्यम्, अत्यंतविभिन्नानामप्याकाशरूपैकाश्रयसंभवेन भेदाभेदसंबंधावच्छिन्नाश्रयताविवक्षणे स्फुटदोषात् ।
[ऋजुमते भेदाभेदाऽविरोधनिरूपणम् ] ऋजवस्तु-सार्वजनीनप्रतीतिस्वारस्यादेव भेदाभेदयोरवच्छेदकभेदं विनापि न विरोधः । यथाहि सामान्यतोऽभावस्य प्रतियोगिव्यधिकरणत्वे क्लप्तेऽपि संयोगाद्यभावेऽतथात्वप्रतीतेः स नियमस्त्यज्यते, तथा भावाभावयोरेकत्र वृत्ताववच्छेदकभेदनियमोप्येकत्र भेदाभेदयोरबाधितानुभवबलादत्र त्यज्यते । अत एव न 'संकर-व्यतिकर-संशयाऽनवस्था-दृष्टहान्यदृष्टकल्पनाः । भेदश्च 'इदमस्माद्भिन्नमिति व्यपदेशनियामको व्यावृत्तिविशेषः । स चैकद्रव्यगुणपर्यायेष्वपि संभवति । अयं भावः-यथाहि सूत्रग्रथितमुक्ता फलानामपेक्षाबुद्धिविशेषविषयत्वं हारत्वं सूत्रमुक्ताफलाधारतावच्छेदकं, तथा गुणपर्यायाणां तादृशद्रव्यत्वमपि तथा । यथा च हारत्वसूत्रत्वमुक्ताफलत्वावच्छेदेन शुक्लत्वप्रतीतिस्तथा द्रव्यत्वगुणत्वपर्यायत्वावच्छेदेन सत्त्वप्रतीतिरपि । यथा च शुक्लत्वाद्यवच्छिन्ने हारत्वाद्यवच्छिन्नभेदस्तथा सत्त्वत्त्वाद्यवच्छिन्ने द्रव्यत्वाद्यवच्छिन्नभेद इति । तदुक्तं"सद्दव्वं सच्च गुणो, सच्चेव य पज्जओत्ति वित्थारो । जो खलु तस्स अभावो, सो तदभावो अतब्भावो'त्ति । विस्तारः तत्तद्धर्मावच्छिन्नविशेष्यतानिरूपिताः प्रकारताः । नन्वेवं वृक्षो वनमितिवत्सद्व्यमिति प्रयोगो न स्यात्, 'यत्र हि यद्धर्मावच्छिन्नप्रकारकापेक्षाबुद्धिविषयत्वं व्यव१. संकरादिदोषस्वरूपं स्याद्वादमञ्जर्यादितोऽवसेयम् ।
म। ३. सदम्यं सच्च गुणः सदेव च पर्याय इति विस्तारः । यः खल तस्याभावो स तदभाव अतद्भावः ॥ इति संस्कृतम् ॥ [प्रव०सार-अध्या० २-गा० १५]