________________
श्लो० १]
दिगम्बरमते मेदामेदस्वरूपम्
नेत्यस्य प्रवेशे गौरवात् इति तु यौक्तिकाः । केचित्तु भेदोऽन्योन्याभावोऽभेदस्तु धर्मान्तरमित्यम्युपगच्छन्ति । अत्र तादृशा मेदस्य व्यवहारानौपयिकत्वं यदाविश्व के मणिकृता, तदसत्, 'प्रमेयमभिधेयमित्यादौ तस्यैव शरणीकरणीयत्वात् ।
[ भेदाभेदमते भेद-पृथक्लयोः स्वरूपम् ]
दिगंबर मतानुयायिनस्तु भेदाभेदो भेदविशिष्टाभेद एव, संबंधता तु तयोरुभयत्वेन रूपेण । न चोभयत्वमप्येक विशिष्टापरत्वमिति विशेषणविशेष्यभावे विनिगमनाविरहः, अविशिष्टयोरपि गोत्वा श्वत्वयोरुभयत्वप्रत्ययात्तस्याऽतिरिक्तधर्मत्वात् । युक्तञ्चैतत् - अतिरिक्तभेदस्य भेदविशिष्टाभेदस्य च तद्रूयंजकत्वकल्पनायां गौरवात् । न च भेदाभेदयोरेकत्र विरोधो, यतो नहि वयं यत्र यस्य यो मेदस्तत्र तस्य तदभावमेव वदामः किन्त्वन्यमेवेति । तथाहि भेदो द्विविधः पृथक्त्वरूपोऽन्यत्वरूपश्च । तत्र पृथक्त्वं प्रविभक्तप्रदेशत्वरूपमन्यत्वं पुनरतद्भाव इति । यदुक्तं - “पैविभत्तपदेसत्तं पुढत्तमिति सासणं हि वीरस्स ।
अण्णत्तमत भावो ण तब्भवं भवदि कथमेगं " ॥ [प्र. सा. अ. २ गा. १४ ] ति यत्तु पृथक्त्वमप्यन्योन्याभाव एवेत्यभिदधे दीधितिकृता, तन्न, एवं सति 'घटः पटातू पृथगि'तिवत् 'रूपात् पृथगि' त्यपि प्रमीयेत । न चैवं, यदवोचाम श्रीपूज्य लेखे
"अण्णं घडाउ रुवं, ण पुढो ति विसारदाण ववहारो ।
भेदा उणो पुढत्तं भिज्जइ ववहारबाघेणं" ॥१॥ ति
तथा च पृथक्त्वस्य भेदत्वेऽप्यन्योन्याभावाद्वैलक्षण्यमेवेति तत्त्वम् । तत्र घटपटादीनां नैतदन्तराभाव इति केवल भेदस्तेषां तद्भेदत्वावच्छिन्नाभावाऽसंवलितत्वात् । प्रतिस्वं प्रातिस्विकरूपेणोभयाभावात्केवलाभेदोऽवयवावयव्यादीनां त्वतद्भावसत्त्वेऽपि पार्थक्याभावाद् भेदाभेद इति ।
यस्त्वतद्भावातिरिक्तमभावस्वभावं पदार्थान्तरमेवान्योन्याभावमभ्युपैति योगः, स न सम्यग्वादी, तादृशान्योन्याभावव्या वृत्तेरप्यसाधारणधर्माधीनत्वात्, तत्राप्यन्योन्याऽभावान्तराश्रयणेऽनिष्टापातात्तस्यैव तत्त्वौचित्यात् । घटादेः कंबुग्रीवादिमत्त्वस्वरूपं हि पटादिस्वरूपव्यावृत्तिरूपत्वात् पटादिभेदरूपं गीयते इति । न च बहुषु धर्मेषु भेदत्वकल्पनाऽपेक्षयातिरिक्तिस्यैव तस्य कल्पना लाघवादुचिता, तथापि प्रत्येकं विनिगमनाविरहात् क्लृप्तकल्पनातोऽक्ऌप्तकल्पनाया गुरुत्वाच्चेत्यधिकमाकरे ।
अत्रेदमस्माकमाभाति । प्रविभक्तप्रदेशत्वमित्यत्र बहुव्रीह्याश्रयणे परमाणवः कुतोऽपि न पृथग्भवेयुः । एवं कर्मधारयाश्रयणे देशस्कंधयोरपि स एव दोषः । स्कंधाश्रितपरमाणूनामेव च १. “ प्रविभक्त प्रदेशत्वं पृथक्त्वमिति शासनं हि वीरस्य । अन्यत्वमतद्भावो न तद्भवद्भवति कथमेकम् " ॥ २. अन्यद्वटाद्रूपं, न पृथगिति विशारदानां व्यवहारः । मेदात्पुनः पृथक्त्वं भिद्यते व्यवहारबाधेन ॥[सं.]
स्या. र. २