________________
। २०
स्याद्वादरहस्ये र्थक्रियेत्यत्र प्रथमातत्पुरुषेऽपि क्रमपक्षः प्रत्याख्यातः। युगपत्पक्षे तु प्रत्यक्षबाधः । एकान्तनित्यपक्षेऽपि दोषभभिदधत्येकांतेति-क्रमाक्रमयोरसंभवप्रतीतिबाधाभ्यामिति भावः ॥४॥ __अथैकांतवादोपकल्पितकर्कशतरतर्कतिमिरनिकरनिराकरणेन प्रकटीभूतप्रतापं भास्वतमनेकांतवादमभिनंदंति-"यदात्वि"ति
यदा तु नित्याऽनित्यत्वरूपता वस्तुनो भवेत् ।
यथात्थ भगवन्नैव तदा दोषोऽस्ति कश्चन ॥५॥ ननु परेऽपि पृथिव्यादिन्यपि नित्यानि परमाणुरूपाणि, स्थूलानि पुनरनित्यानि संगिरंत इति को विवादः ! इत्यत आहुः “यथात्थेति । भगवान् स्यान्नित्यं, स्यादनित्यं, स्यान्नित्याऽनित्यं, स्यादवक्तव्यं, स्यान्नित्यमवक्तव्यं, स्यादनित्यमवक्तव्यं, स्यान्नित्यं चानित्यं चावकव्यं चेति प्रकाशयति, न तथा परे स्वप्नेऽपि संविद्रते इति भावः ।
__इदमिदानीं निरूप्यते-सर्वत्र हि वस्तुनि स्यान्नित्यत्वादयः सप्त धर्माः प्रत्यक्षं प्रतीयन्ते । तथाहि (१) घटो द्रव्यत्वेन नित्यः (२) पर्यायत्वेन चानित्यः इति संवेद्यते । न च ध्वंसप्रतियोगितानवच्छेदकद्रव्यत्ववत्त्वतदवच्छेदकपर्यायत्ववत्त्वरूपे नित्याऽनित्यत्वे कथं द्रव्यत्वपर्यायत्वावच्छेथे ! स्वस्य स्वाऽनवच्छेदकत्वादिति वाच्यम्, अत्र ध्वंसप्रतियोगित्वतदभावरूपयोरेव नित्याऽनित्यत्वयोरेकत्र समावेशाय द्रव्यत्वपर्यायत्वावच्छेद्यत्वाभ्युपगमात् । अस्तु वा विशिष्टस्य स्वस्यापि स्वावच्छेद्यत्वं, कथमन्यथाऽनन्यथासिद्धनियतपूर्ववर्तितावच्छेदकदण्डत्वादिरूपा कारणता दंडत्वाचवच्छिन्ना स्यात् ।
(३) क्रमिकविधिनिषेधापर्णासहकारेण स्यान्नित्याऽनित्योऽपि प्रतीयते । न च समुदिताभ्यां नित्यत्वाऽनित्यत्वाभ्यामेवैतन्निर्वाहाद्धर्मान्तरकल्पनं किमर्थकमिति वाच्यम् ?, समुदितयोस्तयोविलक्षणत्वेनैतत्स्थानाऽभिषेचनीयत्वात् । न च प्रत्यक्षे इच्छायाः कथं नियामकत्वमिति वाच्यम्, प्रतीतिबलादेतादृशेच्छाविशिष्टबोधं प्रत्येतादृशेच्छायाः कारणत्वकल्पनात् ।
(४) युगपदुभयार्पणासहकारेण स्यादवक्तव्योऽपि, न तु सर्वथा, अवक्तव्यपदेनाऽपि अवक्तव्यत्वाऽऽपत्तः । नचाऽवक्तव्यत्वं शब्दाऽबोध्यत्वरूपं कथं योग्यमिति वाच्यम्, उपदेशसहकारेण पद्मरागादिवत्तद्ग्रहात् । नित्यत्वस्यात्र क उपकार इति चेदवक्तव्यत्वेन परिणितिरित्येव गृहाण । वक्तव्यत्वेन परिणतिस्तु नित्यत्वादिविशेष एव विश्राम्यतीति न तदतिरेकावकाशः । वक्तव्यत्वेन बोधस्तु नित्यत्वविध्यादिकल्पनातो नित्यत्वादिनैव बोधान्नोदेति ।
(५) क्रमाऽक्रमाभ्यां विध्युभयकल्पनासहकारेण स्यान्नित्यः स्यादवक्तव्यः । (६) ताभ्यां निषेधोभयकल्पनासहकारेण स्यादनित्यः स्यादवक्तव्यश्च । (७) ताभ्यामुभयकल्पनासहकारेण स्यान्नित्यः, स्यादनित्यः, स्यादवक्तव्यश्चेति । अत्रापि समुदायालम्बिनो शंका प्राग्वन्निरसनीया । न च विशेषणविशेष्यभावे विनिगमनाविरहादाधिक्यमाशंकनोयं, तथाप्येतत्कृतपरिणत्य