________________
प्रलो. १]
चक्षुषोप्राप्यकारित्वसाधनम् आयासं कः प्रकुर्यादनणुमणिविभाभूषिते भूमिभागे । प्रद्योतार्थी प्रदीपं प्रकटयितुमलं तैलसंपूरणादौ" ॥१॥ योग्यता वस्तुनो बोधे, स्मृता प्रतिनियामिका । उपधानं पुनस्तस्य, चक्षुरुन्मिलनादिना ॥२॥ कालिकेन नयनं यदि हेतुर्मिलिताक्ष्णि नहि पुंसि कुतो धीः । . इस्थमालपति वेद न यौगस्त्वाभिमुख्यमिह चेत्थममुष्य ॥३॥ यदाभिमुख्यं किल नोपकारक, प्रक्लप्तसंयोगनियामकं धियः । इहाऽस्मि नास्मिन्नियमे स्पृहावहः, कृतांतकोपस्तु तवैव केवलं ॥४॥ यत्र यत्र परिसर्पति चक्षुस्तत्र तत्र कि दनजन्म।
गौतमीयसमये तदिदानी प्राप्यकारिणि न चक्षुषि साक्षि ॥५॥
यत्त-स्फटिकादिकं भित्त्वा नयनरश्मिप्रसरणं प्रत्यभिज्ञाभिज्ञानां दुरभ्युपगममिति-तत्तु विकटकपाटसंपुटसंघटितमपवरकमुपभिध प्रसृमरमृगमदपरिमलाभ्युपगमसमसमाधानमिति केचित् । वस्तुतो नयनस्य तैजसत्वाऽसिद्ध्या तद्रश्मय एव न संभवंति । न च-चक्षुस्तैजसं द्रव्यत्वे सति रूपादिषु मध्ये रूपस्यैवाभिव्यञ्जकत्वादि'त्यनुमानाच्चक्षुषस्तैजसत्वसिद्धिः, नचाञ्जनेन व्यभिचारस्तस्य चाक्षुषप्रयोजकत्वेऽपि तदजनकत्वादिति-वाच्य, अप्रयोजकत्वात् । नैयायिकैकदेशिनस्तु-इंद्रियत्वं पृथिव्याघवृत्तिर्जन्यसाक्षात्कारत्वावच्छिन्नजनकतावच्छेदको जातिविशेष इत्याहुः । तन्नेत्यन्ये-इंद्रियत्वेन साक्षात्कारं प्रति हेतुत्वे चक्षुःसंयोगेनांधकारस्थघटादिसाक्षात्कारापत्तेः । एवं सति चक्षुषो रश्म्यप्रसिद्या प्राप्यकारित्वमपि दुरुपपादम् । ननु किश्चिदवच्छेदेन तमःप्रच्छन्नेऽपि भित्यादौ यदवच्छेदेन चक्षुःसंयोगस्तदवव्छेदेनालोकसंयोगादेव चाक्षुषदर्शनाच्चक्षुषः प्राप्यकारित्वं सेत्स्यतीति चेत् ! एतन्निपुणतरमंधकारवादे प्रतिविधास्यामः ।
एवं च "शाखाभिमुखेन चक्षुषा विटपिनो मूलावच्छिन्नसंयोगग्रहाभावादव्याप्यवृत्तिचाक्षुषं प्रति चक्षुःसंयोगावच्छेदकावच्छिन्नसमवायसंबंधावच्छिन्नाधारतायाः सन्निकर्षत्वस्यावश्यकल्पनीयतया चक्षुषः प्राप्यकारित्वमायास्यती'त्यपि प्रतिविधातव्यप्रायं वेदितव्यं, तदानीं चक्षुरभिमुखदेशाविष्वग्भावाभावादेव संयोगादिचाक्षुषानुदयात् । "रेवं पुण पासई अपुढे तु" [भाव. नि. गाथा ५] इत्याद्यागमोऽप्यत्रार्थे साक्षीति दिक् ।
[ नानासमवायवादिनव्यनैयायिकमतसमालोचनम् ] नव्यनैयायिकास्तु रूपत्वरसत्वादिसंबंधितावच्छेदकभेदान्नानैव समवायः, अत एव 'द्रव्यं रूपवदि'त्युनमितेः पक्षतावच्छेदकावच्छिन्नसाध्यसंबंधस्य संसर्गत्वेन प्रामाण्य, रूपसमवायस्य
१. "मं पुनः पश्यति अस्पृष्टं तु" । इति संस्कृतम् । 'पुट्ठ' सुणेइ सई' इत्यप्रिमपादः।