________________
स्याद्वादरहस्ये
'महत्त्वसमानाधिकरणोद्भूतरूपस्यापि तत्र सहकारित्वान्नायं दोष' इति चेत् ? न, उद्भूतरूपस्याप्यवच्छेदकत्वसंभवेन विनिगमनाविरहात् । अथ पाकेन रूपनाशक्षणेऽपि घटादिचाक्षुषोत्पत्तिरेव सामानाधिकरण्येनोद्भूतरूपविशिष्टमहत्त्वस्यैव हेतुत्वे विनिगमकमिति चेत् ! न, तत्र रूपनाशक्षण एव चाक्षुषं न तु तदुत्तरोपजायमानरूपोत्तरमित्यस्य कोशपानप्रत्यायनीयत्वात् । अथ महत्त्वोद्भूतरूपयोः पृथगेवास्तु कारणता, महत्त्वजन्यतावच्छेदकं च जन्यद्रव्यसाक्षात्कारत्वमेवात एवात्मसाक्षात्कार एवात्मनि महत्त्वे मानं, उद्भूतरूपजन्यतावच्छेदकं च द्रव्यचाक्षुषत्वमेवेति चेत् ? तथापि चक्षुगोलकपरिकलिताञ्जनाद्यनुपलब्धिः किमधीना ! योग्यताभावाधीनेति चेत् ? तर्हि पाटच्चरविलंटिते वेश्मनि यामिकजागरणवृत्तान्तानुसरणं, भित्यायंतरितानुपलब्धेरपि योग्यत्वाभावेनैवोपपत्तौ चक्षुःप्राप्यकारित्वपथिकस्य दूरप्रोषितत्वात् ।
स्यादेतत्-भित्त्यादिव्यवहितार्थस्य न स्वरूपयोग्यत्वं, कालांतरे तस्यैवोपलंभदर्शनात्, किंतु भित्यादेश्चक्षुःप्राप्तिविघातकतया विरोधित्वादेव न तदंतरितार्थग्रहणमिति । मैवं, भित्त्यादिव्यवहितस्यापि योगिना चक्षुषा ग्रहात् । सूक्ष्मव्यवहितार्थज्ञाने ज्ञानावरणकर्मविपाकोदयविशेष एव हि प्रतिबंधको वाच्यः, तदभाव एव च योग्यतात्मनिष्टा सूक्ष्मव्यवहितार्थज्ञानजननीति गीयते । ननु स्फटिकायंतरितोपलब्धौ तादृशयोग्यताभावाद्वयभिचार इति चेत् ? न, स्फटिकायंतरितोपयोगस्योत्तेजकत्वात् ।
उपयोगश्चोपलिप्सोराभोगकरणमिति विशेषावश्यकवृत्ती, व्यवहितत्वं च स्वाभिमुखपराङ्मुखाभिमुखत्वादिकम् । अस्तु वा विशिष्यैव प्रतिबध्यप्रतिबंधकभावस्तथापि परेषामनंतचक्षुःसंयोगेषु तत्तद्देशानां तत्तक्रियाणाश्च कारणत्वकल्पनापेक्षया लाघवमेव । यत्तु-'संयोगेन चक्षुषः चाक्षुषं प्रति हेतुत्वे प्रागुक्ककारणत्वकल्पनागौरवं फलमुखत्वान्न दोषायेति' तन्न, संयोगादिप्रत्यासत्तीनामननुगमनेन ताभिस्तस्य चाक्षुषं प्रत्यकारणत्वात् । संबन्धाननुगमस्यापि स्वघटितव्याप्तिघटितकारणताभेदकतया दोषत्वात् , कालिकेनैव चक्षुषश्चाक्षुषं प्रति हेतुत्वस्य तवाप्यवश्यमभ्युपगन्तव्यत्वात् । 'स्वप्राचीस्थपुरुषसाक्षात्कारे स्वप्रतीचीवृत्त्यन्यूनपरिमाणकातिस्वच्छभिन्नस्वप्रतीचिवृत्तित्वसंबंधेन सत्त्वेनास्तु भित्त्यादीनां प्रतिबंधकता, प्रतिबंधकतावच्छेदकाननुगमस्तु न दोषाय, तावत्सम्बंधपर्याप्त प्रतियोगितावच्छेदकताकविलक्षणाभावस्य कारणत्वस्वीकारात् । तथा च न चक्षुरप्राप्यकारित्वेऽपि भित्त्यादिव्यवहितोपलब्धिप्रसङ्ग' इति कश्चित् । तदसत्--तेन संबंधेन द्रव्यमूर्त्तत्वादिना प्रतिबंधकत्वे विनिगमकाभावाद्वयवहितेऽपि योगिचाक्षुषानुरोधेन योग्यताया अवश्याश्रयणीयत्वाच्च ।
"योग्या चेद्योग्यता वः सपदि जनयितुं ज्ञानमणोऽनपेक्षः । कस्मादस्माकमाकस्मिक इव न तदा हन्त वस्तूपलम्भः ?