________________
आदिमश्लोकव्याख्या द्वितीये प्रत्यवयवभिन्नाभिन्नावयविबहुत्वप्रसक्तिरिति तुल्यः पर्यनुयोग इति चेत् ! न, अभेदनयाद्बहुत्वेऽपि भेदनयादैक्यात्तथैव प्रतीतेः । परेण तु तथाऽनभ्युपगमात्, समवायस्यैवासिद्धी तात्पर्याच्च ।
[समवायसिद्धिः तन्निराकरणञ्च ] तथाहि-"गुणजातिक्रियाविशिष्टबुद्धयो विशेषणसंबधविषयाः विशिष्टबुद्धित्वाइंडीतिबुद्धिवत् । संबंधांतरविशिष्टबुद्धीनामपि संबंधांतरविषयत्वान्न व्यभिचारः । न वा स्वरूपसंबंधेनार्थान्तरत्वं, पक्षधर्मताबलेन लाघवात्तस्यैकस्यैव सिद्धेरनंतानां स्वरूपाणां संबंधत्वस्य कल्पने गौरवात् धर्मकल्पनातो धर्मिकल्पनाया गुरुत्वञ्च कल्पनीयानेकत्वप्रयुक्तमिति नात्रावतरति । यद्वा 'विशेषणसंबंधनिमित्तका' इति साध्यम्, हेतौ च सत्यत्वं विशेषणं देयं तेन न विशिष्टभ्रमे व्यभिचारः । अनुगतकार्यस्यानुगतहेतुनियम्यत्वाच्च संबंध एक एव सिध्यति । जन्यतावच्छेदकं चाभावादिविशिष्टबुद्धिव्यावृत्तमनुभवसिद्धवैलक्षण्यविशेषवबुद्धित्वमिति केचित् । तन्नेत्यन्ये, वैलक्षण्यस्य जातिरूपस्य स्मृतित्वानुमितित्वादिना सांकर्यात् । विषायतारूपस्य च समवायाऽसिद्ध्या दुर्वचत्वात् , परन्तु सत्यलौकिकविशिष्टप्रत्यक्षत्वमेव जन्यतावच्छेदकम् । विशेषणसंबधत्वं च हेतुतावच्छेदेकमिति कार्यकारणभावबलादेव गुणादिविशिष्टप्रत्यक्षहेतुत्वेन लाघवादेक एव संबन्धः सिध्यति, स एव समवाय" इति वदंति प्रांचो नैयायिकाः ।
तत्तुच्छं, प्राचि पक्षे प्रत्येकं विनिगमनाविरहादेकत्र गुणगुणिनोईयोः संबंधत्वकल्पनाया अतिरिक्तसमवायस्य तत्र संबंधत्वकल्पनायाश्च तुल्यत्वादुमयत्र चाऽप्रयोजकत्वम् । अथ विशिष्टसाक्षात्कारस्य संबंधाऽविषयत्वे तदजन्यत्वे वा गवाश्वादावपि विशिष्टबुद्धिः स्यादिति विपरीतबाधकतर्कसत्त्वान्नैवमिति चेत् ? न, प्राचि पक्षे लाघवादे कसंबंधविषयत्ववत्तदविषयत्वमेव प्रसज्येतेति कार्यभेदनिर्वाहाय सामग्रीभेदो मृग्य इत्यवश्याश्रयणीयस्य द्वितीयपक्षस्याप्यस्मन्नये योग्यतयैव प्रतिनियतविषयव्यवस्थोपपादिकया जर्जरीकृतत्वात् ।
किञ्च, विशेषणसंबंधत्वमपि नैकमिति विशिष्यैव तत्कार्यकारणभावविश्रांतिः । गुणादिसाक्षात्कार इन्द्रियसंबंधजन्यो जन्यप्रत्यक्षवादित्यपि न समवायसाधनायाऽलं, चक्षुषोऽप्राप्य कारित्वेनाऽस्मदादिप्रत्यक्षं प्रत्यपीन्द्रियसंबंधस्याऽहेतुत्वात् । 'चक्षुषोऽप्राप्यकारित्वमेव न सहामहे' इति चेत् ! श्रुणु । प्रसंगसंगतमथ प्रथमानातिशुद्धध': । चक्षुरप्राप्यकारित्वं ब्रूते न्यायविशारदः ॥१॥
[चक्षुषोऽप्राप्यकारित्वसाधनम् ] तथाहि-चक्षुषः प्राप्यकारित्वं तावद् व्यवहितार्थप्रकाशकत्वान्यथाऽनुपपत्या परैः परिकलप्यते । तदयुक्तं, चक्षुःसंयोगस्यापि परमाण्वाकाशादौ सत्त्वाद्वयभिचारेण चाक्षुषं प्रति हेतुत्वाऽयोगात् ।