________________
स्याद्वादरहस्ये [ एकान्तनित्यत्वपक्षेऽकृतागमदोषसंघटना ] तथाऽ'कृतागमः", पर्यायाणामपि नित्यानामेव सतामागंतुकत्वादन्यथा पर्यायवतोऽप्यनित्यत्वापत्तौ नित्यत्वपक्षहानेः । अथ 'घटत्वादेरेव कपालादिजन्यतावछेदकत्वाद्धरत्वस्य च कपालाद्यवृत्तित्वान्नायं दोष' इति चेत् ? न, 'कपालं घटीभूतमिति प्रतीत्या तयोः स्यादमेदसिद्धेः ।
[कथञ्चिदभेदाभेदपक्षदूषणापाकरणम् ] अत्र किंचिद्विचार्यते । नन्वेवं कपालघटयोर्जन्यजनकभावो न स्यादभेदे तदसंभवात् । अत एव नीलघटपदयोः शब्दसामानाधिकरण्यनिर्वाहकतया गुणगुणिनोरमेदसिद्धिरित्यपास्तं, तादात्म्येन स्वार्थाऽन्वितार्थशाब्दबोधजनकत्वरूपस्य तस्य नीलपदस्य नीलवल्लक्षणादिनापि निर्वाहात् । तत्क्षणादिप्रतिसंघानं विना तादृशशाब्दबोधस्त्वनिष्ट एव । यत्तु-"एवं सति शुक्लपटशब्दयारेकार्थत्वे 'शुक्लः पटः' इति सहप्रयोगो न स्यात् , घटादेरिव रूपादेश्च त्वाचं स्यात् 'पटमानये'त्युक्ते यत्किञ्चित्शुक्लाऽऽनयनं च व्युत्पन्नस्य स्यात् , स्याचाऽपट पट इति वदशुक्लः पट इति वचो विरोधप्रस्तं, पाकेन श्यामरक्तविनाशोत्पादाभ्यां घटस्य तौ स्यातां, घटसत्त्वेऽपि च तयोः तौ न स्याताम् । अथ शुक्लत्वघटत्वादिजाति मेदान्नेमे दोषा इति चेत् ? न, शुक्लत्वादेव्यवृत्तित्वेऽन्धस्य त्वचा द्रव्यत्वग्रहवत् रूपत्वग्रहस्यापि प्रसङ्गात् , जातित्वाचं प्रति आश्रयत्वाचस्यैव नियामकत्वादिति गंगेशेनोक्तं, तन्न, आश्रयत्वाचस्य नियमतः पूर्वमभावाद्योग्यताविशेषाभावादेव रूपत्वाचस्पार्शननिर्वाहात् । अथ भेदाभेदाभ्युपगमे न सर्वथाऽभेदपक्षसंभावितप्रसरः प्रागुक्तदोष इति चेत् ? न, अवच्छेदकभेदं विनैकत्र भेदाभेदयोर्विरोधात् । तदुक्तं मणिकृता "तस्यैव तत्राऽभावोऽवच्छेदक भेदेन वर्त्तते ज्ञायते च यथा संयोगाभावः, श्यामावच्छिन्नस्यैवान्योन्याभावस्तत्रैव रकावच्छिन्ने तदन्योन्यभावाभावश्च श्यामावच्छेदेन" । तदिहापि नोलस्यान्योन्याभावो घटत्वावच्छेदेनेति नोलात् घटस्य भेदोऽस्तु अमेदस्तु नीलान्योन्याभावाभावरूपो घटे न, घटत्वावच्छेदेनैव विरोधादेकावच्छेदेन भावाभावयोरेकत्रावृत्तरज्ञानाच्च, नाप्यवच्छेदकान्तरेण, घटत्वावच्छिन्ने घटे तदभावात्तदज्ञानेऽपि 'नीलो घट' इत्यनुभवाच्चेति चेत् !
अत्र वदंति-नहि भेदाभेदो भेदविशिष्ठाऽभेदोऽभेदविशिष्ठभेदस्यापि संबंधत्वे विनिगमकाभावात् , किंतु जात्यंतररूप एव गुणगुण्यादिविशिष्टप्रतीतिनियामकत्वेनाऽनुभवबलेन च सिद्धः, इति क्वावच्छेदकभेदानुपलब्धिदोषः ! एकांतभेदेऽवयवेष्ववयवी किं देशेन समवेयात्कात्न्येन वा ! नाद्योऽवयवातिरिक्तस्य तदेशस्याभावात् । न द्वितीयः, प्रत्यवयवसमवेतावयविबहुत्वप्रसङ्गात् ।
अथाऽवयवेष्ववयवी समवेत्येव, देशेन कात्स्न्येन वेत्यत्र पुनरापादकाभावोऽन्यथा भवतामप्यवयवेष्ववयविनो भेदाभेदो देशेन, कात्न्येन वा ? आधेऽवयवातिरिक्तदेशाऽनिरुक्तिः,