________________
ध्वंसस्वरूपविचारः
लो १]
३
एतेन 'कपालस्यैव घटध्वंसरूपत्वे घटप्रागभावकालेऽपि 'घटो नष्ट' इति प्रतीतिः स्यादिति दूषणमनवकाशं वेदितव्यं, विशिष्टकपालस्य प्रागसत्त्वात् । विशिष्टाऽविशिष्टयोः कथंचिद्मेदस्तु सुप्रतीत एव, क्षणभंगाचापत्तेः सर्वथा भेदपक्ष एव दूषकत्वात् । न चैवं दुखध्वंसस्याप्याssत्मरूपत्वेनाsजन्यत्वान्मोक्षस्याऽपुरुषार्थत्वापत्तिः, स्याद्वादिभिरात्मनोऽपि कथंचिज्जन्यत्वाभ्युपगमात् । अथैवं 'भूतले कपालकदंबकमि' तिवद् 'भूतले घटध्वंस' इत्येव प्रतीतिः स्यात्, न तु कपाले ‘कपालमि’तिवत्कपाले घटध्वंस इति चेत् ? न, प्रतीतिबकेन घटध्वंसत्वविशिष्टाधार तावच्छेदकत्वस्य स्वीकारादिति दि ।
" प्रमाणार्पणात्तु द्रव्यपर्यायात्मासौ, 'कपालक दंवकरूपं मृद्रयं घटप्रध्वंस' इति प्रतीतेर्युगपदुभयनयोन्मिलने नोभयावगाहित्वात्" इति स्याद्वादरत्नाकरमीमांसामांस लधियामास्वाद सुन्दरो विचारः । केचित्तु कपालक दंबकोत्पत्तिरेव घटप्रध्वंसः । स्मत एव " न भवो भंगविहोणो, भंगो वाणत्थि संभवविहोणो । उप्पादो वि अ भंगो । ण विणा घोव्वेण अत्थेणे' [प्र. सा. अ. २ गा. ८] त्यनेन सर्गस्थितिसंहाराणां नान्तरियकत्वं प्रतिपादितम् । कपालक दंबकसर्ग एव हि घटसंहारः, घटसंहार एव च कपालकदंबक सर्गः, तत्सर्गसंहारावेव च मृदः स्थितिः, सैव च तत्सर्गसंहारौ । भावस्य भावांतराऽभावस्वभावेनाऽभावस्य च भावांतर भावस्वभावेनाऽन्वयस्य व्यतिरेकमुखेन व्यतिरेकाणां चान्वयानतिक्रान्त्या प्रकाशनादित्याहुः ।
स्यादेतत् — घटत्वेन घटध्वंसस्येवात्मत्वादिनात्मादिध्वंसाभावादात्मादेरेकांतनित्यत्वं स्यादिति । मैवं, ध्वंसप्रतियोगित्वे सति ध्वंसाऽप्रतियोगित्वेनैव कान्तत्वापायात् । इयांस्तु विशेषो, यदात्मत्वादिनाऽऽत्मादेर्नित्यत्वं तद्भावाऽव्ययत्वात्, घटत्वादिना घटस्य तु नेति । मनुष्यत्वादिना त्वात्मादेरपि ध्वंसोऽनिवारित — एवेति तत्त्वम् । ननु 'तद्भावेन व्ययश्चेत्प्रसिद्धस्तदा तदभावरूपं नित्यत्वमात्मत्वादिनात्मादौ संभवेत् स एव गगनारविन्दसोदर एवे 'ति चेत् ? न, ध्वंसप्रतियोगितानवच्छेदकरूपवत्वस्यैव तदर्थत्वात् । न चैव कंबुग्रीवादिमत्त्वेन घटस्य नित्यत्व स्यादिति वाच्यं, गुरुधर्मस्यापि प्रतीतिबलादवच्छेदकत्वस्वीकारात् । ध्वंसप्रतियोगितावच्छेदकं यद्धर्मवन्निष्ठाऽत्यंताभावप्रतियोगितानवच्छेदकं तदन्यधर्मवत्त्वस्य तदर्थत्वे तु ध्वंसप्रतियोगितावच्छेदकतादृशमनुष्यत्वादेरात्मत्वादिमन्निष्ठात्यंताभावप्रतियोगितानवच्छेदकत्वेनात्मत्वादिनाप्यात्मत्वादे (त्मादेर्नित्यत्वमसंगृहीतं स्यात् । अथ 'कपालनाशादेः सामान्यतः कपालादिसमवेतनाशं प्रत्येव कारणत्वात् घटत्वेन घटध्वंस आकस्मिक' इति चेत् न, कारणत्वपर्यायाणां प्रतीतिबलेन विशिष्य विश्रांतानामेव कल्पनादिति दिक् ।
१. न भवो भंगविहीनः, भंगो वा मास्ति संभवविहीनः । उत्पादोऽपि च भंगः, न विना धौम्येन अर्थेन ॥