________________
स्याद्वादरहस्ये
وی بیویی
مینی میوه و سه میان محیح
यत्वरूपं नित्यत्वं परमतेऽप्रसिद्ध, नित्यव्यवहारविषयत्वेनैव तस्योपन्यासात् । सत्त्वस्य पदार्थत्वेनोभयमतसंप्रतिपन्नस्य, 'उत्पादव्ययध्रौव्यात्मकस्येति व्याख्यानं तु स्वमतावष्टम्मेन शोभते, परमते धर्मितावच्छेदकाऽनिश्चयात् । “एकान्तनित्यत्वे"ऽनित्यत्वाऽसंभिन्ननित्यत्वे, 'कृतनाशो' घटादिपर्यायाणां कुंभकारादिकृतानां सर्वथा नाशः स्यात्, अनित्यस्य नित्यत्वविरोधात् । घटादीनामनित्यत्वे च बहुबादिनामविवादात् ।
परमाणूनामाकाशादीनां च सर्वथा नित्यत्वं, स्थूलपृथिव्यादिचतुष्टयस्य तु सर्वथाऽनित्यत्वमिति हि परमतनिगर्वः । एतच्च प्रत्यक्षविरुद्धम् , नहि कंबुग्रीवत्वादिनै(ने)व 'मृत्त्वेनापि घटो नष्ट' इति कश्चित्प्रत्येति, प्रत्युत 'पूर्वमयमेव मृत्पिडस्तत्कंबुग्रीत्वादिनासीदिति सर्वोऽपि प्रत्यभिजानीते । न चेयं विशेषणाऽभावमेव विषयीकुरुते, विशेष्ये लुङर्थान्वये बाधकाभावात्, प्रतीतिप्रानिव्याच्च । यत्तु 'यदि ह्यतीतविशेषाणावच्छेदेन विधमानस्यैव विशेष्यस्य वंसः स्यात्तदा क्षणरूपाऽतीतविशेषणावच्छिन्नत्वेन प्रतिक्षणं घटस्य विनाशः स्यादि'त्यभिदधे मणिकृता; तत्तु तादृशक्षणभंगस्य दोषाऽनावहत्वात्तदीयैरेव दूषितम् । यत्तु- 'कपालादिसमवेतनाशं प्रति कपालादिनाशस्य कारणत्वात्कथं कपालादिनाशादर्वागतीतविशेषणावच्छेदेनापि घटध्वंससंभव इति' तत्तुच्छं, कपालकदम्बकोत्पत्तिरूपस्य घटनाशस्य तदानीमनभ्युपगमात् । तत्तरक्षणावच्छिन्नघटादिनाशस्य तु तत्तदुत्तरक्षणादिरूपस्य पूर्वक्षणाधीनात्मलाभस्य कपालनाशात् पूर्वमपि संभवे बाधकाभावात् । कश्चित्तु 'संसर्गावच्छिन्न-किञ्चिद्धर्मावच्छिन्नप्रतियोगिताकस्याभावस्यात्यंताभावत्वनियमान्न प्रागुक्तप्रतोतेर्विशेषणावछिन्नविशेष्यध्वंसविषयत्वमिति तत्तुच्छं, यदुत्पत्तौ कार्यस्यावश्य विपत्तिस्तस्यैव प्रध्वंसत्वाऽभ्युपगमात् ।
ननु 'यदुत्त्पत्तावि'त्यत्र सप्तम्यर्थः पूर्वकालत्वं निमित्तत्व वाऽनुपपन्नं, कपालपालेरुत्पत्तेः प्रागुत्तरं वा घटविपत्तेरनभ्युपगमात् , तदुत्पत्तिसमय एव प्रत्युत तदभ्युपगमात् । किञ्च, विपत्तिपदार्थस्यैवात्राऽपरिचयस्तस्य प्रध्वंसातिरिक्तस्य वक्तुमशक्यत्वादिति चेत् ? न, अवश्यं यदुत्पत्तिप्रयोज्या यदनुपलब्धिः स तत्प्रध्वंस इत्यर्थात् ।
[नयप्रमाणाभ्यां ध्वंसस्वरूपविचारः] तत्र ऋजुसूत्रनये उपादेयक्षण एवोपादानप्रध्वंसः। न च द्वितीयादिक्षणेष्वेवं ध्वंसस्याऽभावेन घटस्य पुनरुन्मज्जनापत्तिः, ध्वंससंतानाऽभावस्यैव तदापादकत्वात् । अत एव प्रागभावस्यापि पूर्विलततत्क्षणरूपत्वेऽपि नादिमक्षणरूपप्रागभावोपमर्दनात्मकत्वेन द्वितीयक्षणस्य ध्वंसत्वप्रसङ्गः, प्रागभावोपमर्दनेनैव ध्वंसात्मलाभात् । व्यवहारनये तु घटोत्तरकालवर्तिमृदादिस्वद्रव्यं घटप्रध्वंसः । घटपूर्ववर्त्तिनि मृदादिस्वद्रव्येऽतिव्याप्तिवारणाय 'घटोत्तरकालवर्तीति । घटोत्तरकालवर्तिन्यपि मृदादिसंतानांतरे तद्वारणाय 'स्वे'ति। समनियताभावस्त्वेक एवेति भावः ।