________________
महामहोपाध्याय - न्यायविशारद - न्यायाचार्य-स्वपरसमयरहस्य वेदि-वाद समरकेसरि पंडितशिरोमणी - श्रीमदयशोविजय - प्रकाशितम् ( मध्यम )
॥ स्याद्वादरहस्यम् ॥
सकलवाचक कुलालंकारहार महोपाध्याय श्रीकल्याण विजयगणिशिष्य मुख्य पण्डितश्रीलाभविजयगणिशिष्य मुख्यपण्डितश्रीनयविजयगणिगुरुभ्यो नमः ।
( मङ्गलम् )
ऐ कारस्फारमंत्रस्मरण करणतो याः स्फुरन्ति स्ववाचः, स्वच्छा एताश्चिकीर्षुः सकलसुखकर पार्श्वदेवं प्रणम्य । वाचानां परेषां प्रलपितरचनोन्मूलने बद्धकक्षो, वाचां श्रीमसूरेर्विवृतिमतिरसोल्लासभाजां तनोमि ॥१॥
इह हि निखिलकुवादिकुतर्क संतमसछन्नं जगतः शुद्धनयलोचनमुन्मिमीलयिषवः श्रीहेमसूरयो यथावस्थितार्थव्यवस्थापनद्वारा भगवन्तं स्तोतुमुपक्रमन्ते " सत्त्वस्ये" ति -
[ कलिकाल सर्वज्ञ - श्री हेमचन्द्रसूरि - विरचित- वीतरागस्तोत्राऽष्टमप्रकाशः ] सत्त्वस्यैकान्त नित्यत्वे कृतनाशाऽकृतागमौ । स्यातामेकान्तनाशेऽपि कृतानाशाऽकृतागमौ ॥१॥ [ विप्रतिपत्तिप्रदर्शनम् ]
अत्र 'सत्त्वमेकान्तनित्यं न वे'ति न विप्रतिपत्तिः, स्वमते एकान्तनित्यत्व कोट्यप्रसिद्धेः । किन्तु 'नित्यत्वमनित्यवृत्ति नवा, अनिष्यत्वं नित्यवृत्ति न वे' त्यादिरूपा । न चैवमपि तद्भावाऽव्य