________________
इलो० १२ ]
बस्तुस्वरूपनिरूपणम्
[ ३१
तावच्छेदकत्वात् । अथ दुखध्वंसत्वमेव काम्यतावच्छेदकमिति चेत् ? न, समनियताभावानामैक्येन तदानींतनसुखदुखध्वंसयो रे क्या दुखध्वंसे सुख ध्वंसत्वरूपाऽनिष्टतावच्छेदक ज्ञानस्य प्रवृ त्तिप्रतिबन्धकत्वात् । अथ नित्यनिरतिशय सुखाभिव्यक्तिरूपः स इति चेत् ? न, तादृशसुखे मानाभावादिति चेत् ? अत्राहु:- ' कृत्स्नकर्मक्षय एव मोक्षः' । स च सूक्ष्मजु' सूत्रनयाऽर्पणया नित्यसुखाभिव्यक्तिक्षणस्वरूपो, व्यवहारनयार्पणया नित्यसुखस्वरूपः, प्रमाणार्पणया तु द्रव्यपर्यायोभयस्वरूप इति दिग् । काम्यतावच्छेदकं तु विजातीय सुखत्वमेव । न च नित्यसुखे प्रमाणाभावः, आगमस्यैव मानत्वात् । न च सुखत्वावच्छेदेन शरीरादीनां कारणत्वात्तादृशं सुखं कथमिति वाच्यं, एवं सति परेषामीश्वरादौ नित्यज्ञानादिकमपि न सिध्येत्, ज्ञानत्वाद्यवच्छेदेनात्ममनोयोगादीनां कारणत्वावधारणात् । प्रमाणान्तरान्नित्यज्ञानादिसिद्धौ कार्यतावच्छेदकसंकोचरत्वन्यत्रापि तुल्य इति दिग् ।
मीमांसकास्तु प्रायशोऽनेकान्तवादात्स्वयमेव न पराङ्मुखा इति न तेषां पृथक् संमत्यनुक्त्या न्यूनत्वमिति ध्येयम् ॥ ११ ॥
इत्थमनेकान्तवादं परेषामपि संमत्या प्रमाणयित्वा संप्रति वस्तुस्वरूपमाहुः “तेनेति"गोरसादिवत् । स्वदुपज्ञं कृतधियः प्रपन्ना वस्तु वस्तुसत् ॥१२॥
तेनोत्पादव्ययस्थेमसंभिन्नं
तेन प्रागुक्तयुक्त्या परेषामपि संमत्या च कृतधियः सत्परीक्षादक्षाः त्वदुपज्ञं त्वदंगीकृतमेव वस्तुसत् = पारमार्थिकं वस्तु प्रपन्नाः अंगीकृतवन्तः । कीदृशं वस्तु ? उत्पादव्ययध्रौव्यसंभिन्नमेतत्त्रितयस्वभावमित्यर्थः । अयं भावः - द्रव्यस्योत्पादोच्छेदधौ व्यैक्य परिणामः स्वभावस्तथा च पारमर्ष - " उपन्नेह वा, विगमेह वा, धुवेइ व" त्ति यथैव हि द्रव्यवास्तुनः सामस्त्येनैकस्यापि विष्कंभक्रमप्रवृत्तिवर्त्तिनः सूक्ष्मांशाः प्रदेशास्तथैव हि द्रव्यवृतेः सामस्त्येनैकस्या अपि प्रवाहक्रमप्रवृत्तिवर्त्तिनः सूक्ष्मांशाः परिणामाः । यथा च प्रदेशानां परस्परव्यतिरेकनिबन्धनो विष्कंभक्रमः तथा परिणामानां परस्परव्यतिरेकनिबंधनः प्रवाहक्रमोऽपि । यथैव च ते प्रदेशाः स्वस्थाने स्वरूपपूर्वरूपाभ्यामुत्पन्नोच्छन्नत्वात्सर्वत्र परस्परानुस्युतिसूत्रितैकवास्तुतयानुत्पन्नप्रलीनत्वाच्चोत्पत्तिव्ययत्रौव्यत्रितयात्मकमात्मानं विभ्रति तथैव ते परिणामाः स्वावसरे स्वरूपपूर्वरूपाभ्यामुत्पन्नोच्छन्नत्वात्सर्वत्र परस्परानुस्युतिसूत्रितैकप्रवाहतयाऽनुत्पन्नप्रलीनत्वाच्चोत्पत्तिव्ययध्रौव्यत्रितयात्मकमात्मानं बिभ्रति । यथैव च य एव पूर्वप्रदेशोच्छेदनात्मको वास्तुसीमान्तः स एव हि तदुत्तरोत्पादात्मकः, स एव च परस्परानुस्युतिमूत्रितैकवास्तुतया तदुभयात्मक इति तथैवात्रापि य एव पूर्वपरिणामोच्छेदनात्मको वृत्तिसीमान्तः, स एव तदुत्तरोत्पादात्मकः, स
I