________________
३२ ]
उपसंहार-प्रशस्ती
एवं च परस्परानुस्युतिसूत्रितैकवृत्तितया तदुभयात्मक इति । दृष्टान्तोऽत्र मुक्तादाम | यथा दीर्घे लम्बे मुक्तादामनि सर्वेष्वपि स्वधामसूत्रकसत्सु मुक्ताफलेषु उत्तरोत्तरेषु धामसूत्तरोत्तरमुक्ताफलानामुदयनात् पूर्वेषां पूर्वेषां चानुदयनात् सर्वत्राऽपि परस्परानुस्युतिसूत्र कसूत्रस्यावस्थानाच्च त्रैलक्षण्यं प्रसिद्धं तथात्रापि ध्येयमिति ।
अत्र निश्चयतः प्रदेशादीनामुत्पत्तिनाशसंभवेऽपि व्यवहारतः परिणामानामेव तौ । यदवच्छेदेन च धौव्यं तदवच्छेदेन तु नोत्पत्तिनाशौ, अन्यथा संकरापत्तेः । उत्पादव्यययोः द्रव्यत्वं तु स्वावलंबितपर्यायालंबन त्वाद्बोध्यम् । उत्पाद- स्थितिभंगाश्च न परस्परं सर्वथा भिन्नाः कुभसर्गमृत्पिडंसंहारमृत्तिकास्थितीनामैक्येनैवानुभवनात् । द्रव्यस्य स्थितिकाल एव च पर्यायाणामुत्पत्तिनाशसंभवान्न क्षणभेदोपीति परमसमयामृतास्वादोद्गारः । इत्थं च सर्वेषां द्रव्याणामेकस्वभावत्वेऽप्ययं कश्चिद्विशेषो यदिह पुद्गलजीवद्रव्य एव परपरीणामाद्वैचित्र्यमनुभवतः । भवन्ति हि यथा परमाणवः स्निग्धरुक्षत्वादिविशेषेण परस्परमेकीभवंतो द्वयणुकत्र्यणुकादिसमानजातीयद्रव्यपर्यायभाजो रागद्वेषादिप्रवृत्तिपारतंत्र्येणात्मानश्चासमानजातीयद्रव्यपर्याय भाज इति न वमाकाशादय इति दिग् ।
नन्वेकस्मिन् समये विरूद्धोत्पत्यादिधर्मसमावेशः कथमित्याशंकायां दृष्टान्तमाहुः गोरसादिवदिति । यथाहि गोरसे स्थायिनि पूर्वदुग्धपरिणामविनाशोत्तरदधिपरिणामोत्पादौ प्रत्यक्षप्रमाणसिद्धत्वान्न विरुद्धौ तदुक्तं " 'पयोव्रती न दध्यत्ती" त्यादि, तथेहापि द्रव्ये सर्वदा स्थायिनि पूर्वपरिणामोच्छेदोत्तरपरिणामोत्पादौ प्रतीतिबलादेव न विरुद्धाविति भाव इति श्रेयः श्री ॥ १२ ॥
[अथ ग्रन्थकार प्रशस्त्यादि ] - स्याद्वादोपनिषन्निषण्णविलसद्युक्तिप्रचारेऽपि या, युत्पत्न्यै दधिरे काचन महन्नैयायिक प्रक्रियाः । किं चित्रं भुवि चातुरीपरिचितप्रेमामृतास्वादिनां तत्रास्मद्गुरवो नयादिविजयप्राज्ञाः प्रसन्ना यदि ॥ १॥ सोयं श्रीत पगच्छ मंडनमभूत् श्रीहोरसूरीश्वरो, रंभागीत जगद्गुरुत्वविरुदप्रद्योतमानोदयः । यस्य श्रीमदकब्बरप्रतिहतप्रत्यर्थिसीमंतिनी नेत्रास्त्रैर्मलीनीकृतामपि महीं कीत्तिः सितामातनोत् ||२|| सूरिश्रीविजयादिसेन सुगुरुस्तेजस्विनामग्रणीस्तत्पट्टोदयपर्वते स्म नितमां पुष्णाति पूष्णः प्रभाम् । अंशायातदिगी - शत्रुदमहसो दिल्लीपतेः पर्षदि ध्वस्ता येन न के कुवादिनिवहा ध्वान्तप्रबन्धा इव || ३ || सूरिः श्रीविजयादिदेवसुगुरुः प्रद्योतते सांप्रतं, तत्पट्ट्कविभूषणं मुनिजनस्तुत्यक्रमांभोरुहः | सायुज्यं भजतोऽनुमेयवसति भालेन शीतद्युता, यं सेवत्यलमष्टमी प्रतिदिनं तादृक् तपोदर्शनात् ||४||
F
१ - पयोव्रती न दध्यन्ति, न पयोऽत्ति दधिव्रतः । अगोरसव्रतो नोभे, तस्मात्तत्वं त्रयात्मकम् ॥ शास्त्रवार्त्तासमुच्चये स्त० ७ श्लो० ३ ।