________________
३० ]
लघुस्याद्वादरहस्ये तदापत्तिः, पटमानसत्वादेरप्युच्छखलोपस्थितपटादिभानवारणाय तत्प्रतिबध्यावच्छेदकत्वेऽनंतप्रतिबध्यप्रतिबन्धकभावकल्पनाऽऽपत्तेः ।
अथ भोगपरामर्शजन्यभित्रज्ञाने जातिविशेष स्वीकृत्य तदवच्छिन्नमानसं प्रति तज्जातीयान्यज्ञानसामग्र्याः प्रतिबन्धकत्वान्न तदानीं वहीतरज्ञानाऽऽपत्तिरिति चेत् ? न, मानसत्वस्यैव तत्प्रतिबध्यतावच्छेदकत्वौचित्यात् । नचैवं अनुमितिसामग्रीसन्या भोगोऽपि कथं भवेदिति वाच्यं, भोगान्यज्ञानप्रतिबंधकतावच्छेदकतया समानीतजातिविशेषवतां सुखदुःखानामुत्तेजकत्वात् । न च तादृशसुखदुःखकालेऽप्नुमितिसामग्रीभृतपरामर्शादौ समवायेन तदभावादनुमित्यापत्तिः, सामानाधिकरण्य-कालिकोभयसंबंधावच्छिन्नतदभावस्य निवेशात् ।
___ अत्रेदं चिन्त्यम्-अनुमितिसामग्र्या मानसं प्रति प्रतिबंधकत्वस्य तत्तदिच्छारूपोत्तेजकभेदेन विशिष्यविश्रान्त्यानुमितेर्मानसत्व एव वयादिधर्मिकमानसं प्रत्यप्रतिबंधकत्वकल्पनया लाघवम् , तत्तदिच्छोपजायमानभिन्ने प्रतिबध्यतावच्छेदकजातिस्वीकारस्तु परामर्शजन्यभिन्नेऽपि स्वीकतुं शक्यते इति न वह्नयाद्यनुमितिसामग्रीकाले उच्छृखलोपस्थितघटादिभानवारणाय मानसत्वस्य तत्तत्प्रतिबध्यतावच्छेदकत्वकल्पनौचित्येनानुमितेरप्रत्यक्षत्वाभिधानं युक्तमिति ।
प्राश्चस्तु-उपनीतभानस्थले विशेषणज्ञानविशिष्टबुद्धयोः कार्यकारण भावेनेवास्माकं चरितार्थता । अनुमितेर्मानसत्वव्याप्यतावादे तु पक्षादेमुख्यविशेष्यतयैव भानान्नानेन गतार्थता, इत्यतरिक्तकायकारणभावकल्पने गौरवमित्याहुरिति दिग् ।
सिध्यतु वा यथाकथंचित् मनः अनुमानेन, तथापि यत्संयोगव्यतिरेकात् सुषुप्तिकाले कार्यानुत्पादस्तस्यैव मनस्त्वात्तस्य च भौतिकाणुत्वे पृथिवित्वजलत्वाठी विनिगमनाविरहात्, नव्यनये पृथिव्यादेरपि रूपवत्त्वाभावेन वायुत्वेऽपि विनिगमनाविरहादतिरेकसिद्धया भूतचतुष्टयमात्रस्य पदार्थत्वप्रतिज्ञासंन्यासात् । न चात्मनः शरीरानतिरेके संयोगादेः पृथक् प्रत्यासत्तित्वाकल्पनलाघवमपि, परमाणौ पृथिवीत्वादिग्रहवारणाय महत्त्वोद्भूतरूपयोः प्रत्यासत्तिमध्येऽवश्यं निवेश्यत्वेन त्रुटिग्रहार्थ तत्स्वीकारात् , इत्यन्यत्र विस्तरः ।
किंच शरीरस्यात्मत्वेऽहमात्मेतिवदहं शरीरमिति प्रत्ययोऽपि प्रमा स्यात् , न स्याचाहमात्मवानितिवदहं शरीरवानित्यपि । अपि च १-एगे आया इत्याद्यागमोप्यात्मानमुद्योतयतीत । स चायं "चैतन्यस्वरूपः परिणामी कर्ता साक्षाद्भोक्ता स्वदेहपरिमाणः प्रतिक्षेत्रं भिन्नः पोद्गलिकादृष्टयांश्चेति" सूत्रम् ' इत्थश्चात्मनः सिद्धौ तसिद्ध्यधीनौ परलोकमोक्षावपि सिद्धावेव । ननु मोक्षश्वेदशेषविशेषगुणोच्छेदरूपस्तर्हि तत्र कस्यापि प्रवृत्तिर्न स्यात् , विशेषगुणोच्छेदत्वस्याऽनिष्ट
इ-स्थानांगसूत्रं प्रथमम् । २ प्रमाणनयतत्त्वालोक-परि० (७) सू० (५६) ।