________________
इलो० ११ ]
नव्यचार्वाकमतनिरसनम्
पृथकारणत्वान्नायं दोष इति, तन्न, तत्तद्व्यक्तित्वेनाप्रामाण्यग्रहाभावानां तत्तदप्रामाण्यग्रहाभाव विशिष्टधूमादिलिङ्गकानुमितिं प्रति हेतुत्वकल्पनापेक्षया सामानाधिकरण्यविशिष्टविशेष्यतासंबंधावच्छिन्नप्रतियोगिताकाप्रामाण्यग्रहाभावानामवच्छेदकत्वकल्पनौचित्यात् । यत्तु वह्निमनुमिनामीत्यनुव्यवसायेनानुमितित्वसिद्धिरिति तन्न, तत्र विधेयताविशेषस्यैव विषयत्वात् । अन्यथा पर्वतमनुमिनेोमीत्यपि स्यात् । परामर्शजन्यतावच्छेदकतायामपि स एव प्रवेश्यतामिति चेत् ? न, तदीयसंबंधापेक्षयाऽनुमितित्वीय संबंधस्य समवायरूपस्य कार्यतावच्छेदकत्वे लाघवात् ।
[ २९
ननु तथापि अनुमितित्वस्य मानसत्वव्याप्यत्वमेवेति प्रागंगीकृतम् । न चानुमितेः साक्षात्कारत्वे वह्निन साक्षात्करोमिति प्रतीतिः कथमिति वाच्यं तत्र लौकिक विषयतया साक्षात्कारभावादेव गुरुत्वादाविव तदुपपत्तेः । अत एव लौकिकविषयतावत्येव साक्षात्करो - मीति प्रतीत्युत्पत्तेः पीतं शंखं साक्षात्करोमीत्यादिप्रतीतिबलाद्दोषविशेषजन्यतयापि लौकिकत्रिषयतां कल्पयन्ति ग्रान्धिकाः । युक्तं चैतत् चाक्षुपादिसामग्रीसरखे मानसत्वरूपव्यापकधर्मावच्छिन्नसामग्र्याभावादेवानुमित्यनुदयोत्पत्तौ अनुमितित्वादेस्तत्प्रतिबध्यतावच्छेदकत्वाऽकल्पनेन
लाघवात् ।
अथानुमित्साधुत्तेजक भेदेन विभिन्नरूपेण प्रतिबध्य प्रतिबन्धकभाव आवश्यक इति चेत् ? न तत्तदिच्छानंतरोपजायमानभिन्नमानसे जातिविशेषं स्वीकृत्य तदवच्छिन्नं प्रति मानसान्यसामग्र्याः प्रतिबन्धकत्वकल्पनादनुमितित्वादेर्मानसवृत्तित्वकल्पनोचित्यात् । अथ - दिच्छा विरहकाले तत्तदिच्छानंतरोपजायमानमानसापत्तिरिति चेत् १ न, तादृशमानसं प्रति तत्तदिच्छानां हेतुत्वात् । न चैवं गौरवं, फलमुखत्वात् ।
अथ सुस्मृर्षाद्यनंतरोपजायमानभिन्नज्ञाने जातिविशेषं स्वीकृत्य तदवच्छेदेन चाक्षुषादिसामग्र्याः प्रतिबन्धकत्वेऽनुमितित्वादेः परोक्षवृत्तित्वमेवास्तु इति चेत् ? न तदवच्छेदेन स्मृत्यन्यज्ञानसामग्र्या एव प्रतिबन्धकत्वात् तज्जातिविशेषस्य स्मृतित्वव्याप्यस्यैव युक्तत्वात् । तज्जातिवदन्यज्ञानसामग्रीत्वादीना प्रतिबन्धकत्वेऽपि विशेषणतावच्छेदकप्रकारकज्ञानजन्यतावच्छेदकतया सिद्धस्य प्रत्यक्षस्यैवानुमितौ युक्तत्वात् इति चेत् ? अत्र वदन्ति तदानीं वह्निमानसस्वीकारे लिङ्गादीनामपि मानसाऽऽपत्तिः । न चा'ऽऽचार्यमत इव तत्र तद्भानमात्रे इष्टापत्तिः एवमप्युच्छं खलोपस्थितानां घटादीनां तत्र भानाऽऽपत्तेः । न च तद्धर्मिकतत्संसर्गक तत्तद्धर्मावच्छिन्नव्याप्यवत्ताज्ञानात्मकपरामर्शादिरूपविशेषसामग्रीविरहात् न तदापत्तिरिति वाच्यं, सामान्य सामग्रीवशात्तदापत्तेः । न च घटमानसत्वस्य परामर्शादिप्रतिबध्यतावच्छेदकतया न
१ - उदयनाचार्यमत इव ।