________________
७४
चन्द्रराजचरित्रम्
अतः सत्यमुदित्वैतान्, विसर्जय सखे ! द्रुतम् । तदेव पथ्यं पश्यामि, कात्र कार्या विचारणा ?' ।। २६० ।।
।। २६२ ।।
ततोऽहमवदं 'देव !, दैवात् कुष्ठी तवाऽऽत्मजः । न तत् कोऽपि विजानाति, राजवेश्मन्यपि प्रभो ! ।। २६१ ।। संसारेऽस्मिन् मृषावाक्यं स्वदते सम्पदामपि । मूलभूतं तदेवाऽस्ति, विरोधात् सत्यसम्पदोः १ प्रतिकूलोऽपि मिथ्यातो - ऽनुकूलो जायते नृप ! अन्यथा किं कुमारस्य, सुरङ्गास्थापने फलम् ? मूलादेव न चेन्मिथ्या, ततः कोऽपि न तं प्रति । समागच्छेदतः कस्मान्मिथ्यातो भयमस्ति ते ? ।। २६४ ॥
।
।। २६३ ।।
परदेशात् समायात, आशया स कथं पुनः । राजन् ! निराशः कर्तव्य, आशाभङ्गे ह्यघं महत् ।। २६५ ।। न चौरो ग्रहणाद् भीतिं करोति क्वचिदेव हि । इति त्वया न भेतव्य-मकृत्यकरणेष्वपि ॥ २६६ ॥
इति मन्त्रिवचः श्रुत्वा, राजोवाच 'न मे फलम् । अस्य ते भविता सर्वं, मन्त्रिन् ! कपटकारक !' ।। २६७ ।।
एवं मन्त्रयतोरेवा - ऽऽगतास्ते मन्त्रिणो द्रुतम् । 'ऊचु' मन्त्रयतां व्यत्यै- दस्माकं समयो बहुः ।। २६८ ।।
न बलात्कारतः प्रीतिः, काऽपि कस्याऽपि जायते ? | अतो न रोचते ते चेद्, वद त्वं निश्चलं ततः ।। २६९ ।।
१. 'सर्वेषां क्ष्मापुरन्दर !' इति पाठा० ।। २. ' अथवा ' इति पाठा० ।। ' -ऽऽगच्छंस्ते' इति पाठा० ।। ४. 'राजन्' इति पाठा० ।। ५. 'प्रीतः कोऽपि ' इति पाठा० ।।