________________
सर्गः
-
२
७५
मत्स्वामिनः कन्यका ते', स्नुषाभूताऽस्ति तर्ह्यसौ । अन्यस्मै यदि दीयेत, तत् किं न स्यादसाम्प्रतम् ? ।। २७० ।। गृहे समागतां लक्ष्मीं, को विसृजति बुद्धिमान् ? | अतः प्राज्ञेन भवता, कथमेवं विधीयते ?' ।। २७१ । तत्कालेऽप्यवदं भूपं, 'राजन् ! मन्त्रि (मम) वचः शृणु । आशया समुपायातो, निराशः क्रियते कथम् ? ।। २७२ ।। परदेशाद् दूरदेश -मागतः स कथं वृथा । गच्छेदतो ग्रहीतव्य-मेवं वचनमादरात्' ।। २७३ ।।
इत्येवं नृपतिं चन्द्र !, बोधयित्वाऽथ मन्त्रिणः । स्व्यकार्षं वचनं तस्य, गृहीतमपि श्रीफलम् ।। २७४ ।। मिलिताः इव प्रावृषि ।। २७५ ।
सर्वसज्जनाः ।
श्रीफलग्रहणे तत्र, जहृषुर्नृत्यवादित्रै - मयूरा अथ ते सचिवा ऊचु - 'रुपकारो महान् कृतः । साम्प्रतं तु कुमारस्य, रूपं दर्शय मन्त्रिराट् ! ।। २७६ ।।
कुमाररूपं दृष्ट्वाऽहं वदिष्यामि स्वभूपतिम् । उत्कण्ठा प्रबला राज- कुमारं द्रष्टुमस्ति मे ॥। २७७ ।।
यथा राजकुमारी मे, प्रेमला राजसूनुना । परिणीता कृतार्था स्याद्, वयं च दर्शनात् तयोः ' ।। २७८ ।।
तदाऽहं कपटं कृत्वा ऽवदं तान् युक्तिपूर्वकम् । 'कुमारो मातुलागारे - ऽतः सार्द्धशतयोजनें ।। २७९ ।।
१. 'सा' इति पाठा० ।। २. 'विसर्जति' इति पाठा० ।। ३. 'तस्यो- पाददामपि' इति पाठा० ।। ४. ‘साम्प्रतं श्रीकुमारस्य' इति पाठा० ।। ५. 'एकान्ते पाठशालायां, कुमारः शतयोजने' इति पाठा० ।।