________________
चन्द्रराजचरित्रम्
धात्रीसहायः पठति, तत्राऽपि च विले स्थितः १ । अध्यापको बहिः स्थित्वा तं पाठयति नित्यशः ।। २८० ।। दुर्लभं दर्शनं तस्य, सूर्यो यं नाऽवलोकते । किं पुनस्त्वादृशो मन्त्रि- नेकसौन्दर्यशालिनम्' ।। २८१ ।। तथाऽपि तेऽतिनिर्बन्धं चक्रुर्मन्त्रिजनास्ततः । तान् गृहीत्वा स्वभवन- मगमं मानपूर्वकम् ।। २८२ ।। सुगन्धितैलैरभ्यज्य, स्नापयित्वा शुभैर्जलैः । कर्पूरकेशराद्यैश्च, व्यलेपयमिमानहम् ।। २८३ ।।
७६
रत्नस्थाले समानीय, समानीय, लेह्यचोष्याद्यनेकशः । भोज्यं च सरसं तेभ्यो ऽददां प्रेम्णा सपेयकम् ॥ २८४ ॥
ताम्बूलमर्पयित्वाऽहं पर्यङ्के विनिवेश्य तान् ।
,
व्यजनैः शीतलं वायुं, व्याजिजं गततन्द्रितः ।। २८५ ।।
अनेकरत्नरचित-मलङ्कारं
दत्त्वा
इत्थं
सवाससम् ।
सत्कारबहुल-मप्यकार्षमहं ततः ।। २८६ ॥
राजनन्दनदर्शनम् ।
समर्चिता समर्चिता भूयो, प्रार्थयाञ्चक्रिरे, तेभ्यो ऽकथयं शृणुताऽधुना ।। २८७ ।। कुमारो रूपवानस्ति, नाऽत्र कश्चन संशयः । अन्यच्च स्वनृपः क्रुध्येत्, तादृशं क्रियते कथम् ? २ ।।२८८ ।। भवत्सु प्रियमित्रेषु, छलं कुर्यामहं कथम् ? । तत्सौन्दर्यं न संदेह्यं, सत्यमेतद् ब्रवीम्यहम् ।। २८९ ।।
१. 'विलस्थितः' इति पाठा० ।। २. 'दर्शितेऽस्मिन्नृपः क्रुध्येत्, तस्मात् स दर्श्यतां कथम् ?' इति, 'दर्शितेऽस्मिन्नृपः किञ्च, क्रुध्येत् तद् दर्श्यतां कथम्' इति च पाठा० ।