________________
सर्गः २
मयैव सुविचार्येदं कृतं कार्यं ततो नहि । हास्यं जायेत युष्माकं, क्वाऽपि मन्त्रिमहोदयाः ! ।। २९० ।।
७७
सुपात्रमस्त्ययं येन, भवतामीप्सितं फलम् । प्रेमलायाः फलमभूद्, गौरीपूजनजं स्फुटम् ।। २९९ ।। अमान्यो' न वृथा कार्य, आग्रहो वरदर्शने । राजाज्ञोल्लङ्घनं भूरि- यन्त्रणायै यतो भवेत् ।। २९२ ।। अयं तु विधिना बद्धः, संयोगो जायते किल । विवाहो जन्ममरणं च भवन्ति विधियोगतः ३' ।। २९३ ॥
1
छलवाग्भिरप्येताभि-र्बोधिता मन्त्रिणो नहि । आग्रहं मुमुचुः पश्चाल्लोभं तेभ्योऽददां बहु ।। २९४ ।। कोटिसंख्यकदीनारं, सर्वेभ्यो दापयामि वः इत्थं लोभेन ते सर्वे, समानीता वशं बलात्' ।। २९५ । श्यामास्या अपि ते शीघ्रं प्रसन्नास्याः प्रजज्ञिरे । न लोभस्य समं लोके, वशीकरणमस्ति हि ।। २९६ ।। राज्ञः पुरो गतास्तेऽथ, विवाहदिननिश्चयम् । कर्तुं राजाऽपि दैवज्ञां - स्तदैवाऽऽजूहवद् द्रुतम् ।। २९७ ।। तेऽपि सर्वं समालोक्य, स्थिरीकृत्य ग्रहानथ । षण्मासानन्तरं योग्यं, समयं संव्यजिज्ञपन् ।। २९८ ।।
१. 'अनुचित : ' इति टि० ।। २. 'राजा चेच्छृणुयादेतत्, तदा न कुशलं भवेत् ' इति पाठा० ।। ३. 'विवाहजन्ममरणा - न्यासते दैवयोगत:' इति पाठा० ।। ४. ‘इत्थं छलैर्बहुविधैश्छलयित्वाऽपि नो पुनः' इति पाठा: ० ' ।। ५. 'लुब्धा भूता नृपाश्रयाः' इति, 'वशीकृताश्च मन्त्रिणः' इति च पाठा० ।। ६. 'समागच्छन्' इति पाठा० ।।