________________
७८
चन्द्रराजचरित्रम् अथ गन्तुं समुद्युक्ता, राज्ञः सम्मानिता भृशम् । . सौराष्ट्र प्रययुः सर्वे', दिवसैर्बहुभिस्ततः ॥२९९ ।। सर्वं राज्ञे समाचख्यु-र्येन राज्ञाऽपि ते पुनः । सम्मानिताश्चतुर्लक्ष-द्रव्यदानेन मन्त्रिणः ।।३०० ।। इतः सिंहलभूमीन्द्रः, पुत्रपाणिग्रहोत्सवे । गजाश्वरथपत्तीनां, शृङ्गाराणि समादिशत् ।।३०१ ।। दृष्ट्वा तन्नागरा ऊचु-विस्मिता ‘हेतुरत्र किम् ?' । राजभृत्याः ‘कुमारस्य, विवाहोत्सवमा लपन् ।।३०२ ।। कुमारदर्शनोत्कास्ते, चिरादाकर्ण्य तद्वचः । प्रमदाम्भोधिसंमग्न-चित्ताः पौरास्तदाऽभवन् ।।३०३ ।। अथ मामवदद् राजा, 'कथं रे कुटिलाग्रणी: ? । प्रेमलाया जनुर्व्यर्थं, क्रियते साम्प्रतं त्वया ।।३०४ ।। यदि मे तनयस्तत्र, प्रकटः स्यात् तदा कथम् । प्रेमलायाः पाणिपद्मं, गृह्णीयात् कुष्ठरोगभाक्' ।।३०५ ॥ इति तद्वचनं श्रुत्वा, चिन्तितोऽहमगां गृहम् । कुलदेवीं समाराद्धं, प्राक्रमे भक्तितत्परः ॥३०६ ।। प्रत्यक्षीभूय सा देवी, कथयामास 'त्वं कथम् ? । मामाराध्नोषि किं कार्यं ?, वद शीघ्रं ममाऽग्रतः' ।। ३०७ ।। ततोऽहमवदं 'देवि !, राजपुत्रस्य सम्प्रति । विवाहनिश्चयो मातः !, कृतो यो मयका, कथम् ॥३०८ ॥ १. 'अधिसौराष्ट्रमाजग्मु-' इति पाठा० ।। २. 'किं महोत्सवकारणम्' इति पाठा० ।। ३. 'उच्छलत्प्रमदाम्भोधि-चित्ता आसन् हि नागराः' इति पाठा० ।। ४. 'चिन्तायुक्तः' इति टि० ।।