________________
सर्गः २
-
७३
अद्यापि मे कुमारोऽस्ति, शिशुरेव कथं ततः । विवाहं कारयिष्यामि, वयस्थस्य हि स स्मृतः ।। २५१ ।। नाऽद्याऽपि विवरस्थेना- ऽमुना दृष्टं गृहाङ्गणम् । तं नोत्सङ्गे निधायाऽला - लयं न च श्रुतं वचः ।। २५२ ।। कथं पाणिग्रहं तस्य, भविष्यति न ते प्रभोः । कन्या न दृष्टा, ज्ञाता वा, योग्या साऽस्मै पुनर्मया ।। २५३ ।। तव चेच्छीघ्रता मन्त्रिन् !, वरमन्यं प्रमार्गय' । इत्येवं कथयित्वा तान्, विश्रामायाऽमुचन्नृपः ।। २५४ ।। प्रत्यहं कथयत्स्वेवं, मन्त्रिभ्यस्तस्य मन्त्रिषु । अथैकदा मां विजने, राजोवाच विचिन्तितः ।। २५५ ।। 'कमुपायं करिष्यामि मन्त्रिणस्त इहाऽऽगताः । दृढं मामनुबध्नन्ति कथं गुप्तं भवेदिदम् ? ।। २५६ ।। सा कन्या रूपवत्यस्ति, पुत्रो मे कुष्ठरोगभाक् । वञ्चयित्वा कथं कुर्यां श्रीफलस्य परिग्रहम् ।। २५७ ।। मन्त्रिन् ! कदाऽपि नो कार्यं, 'कूटं पापस्य कारणम् । ज्ञात्वा कथं कुष्ठभाजा, कन्यापाणिग्रहो भवेत् ? ।। २५८ ।। पूर्वजन्मकृतं कर्म निःशङ्कं वञ्चनात्मकम् । तेनाऽयं कुष्ठरोगेण, पीडितस्तनयो
मम ।। २५९ ॥
/
१. 'विषयाश्चेतनस्य हि' इति पाठा० ।। २. 'तमुत्सङ्गे निधायाऽहं, नालीलिङ्ग न श्रुतं वचः' इति पाठा० ।। ३. 'कन्या दृष्टा कथं तस्माच्छ्रीघ्रं पाणिग्रहो भवेत् ' इति पाठा० ।। ४. ' - न्त्वेव' इति पाठा० ।। ५. 'मन्त्रिणः' इति पाठा० ।। ६. 'प्रत्यहं दूरदेशिनः' इति पाठा० ।। ७. ' एवं ' इति पाठा० ।। ८. 'कुटपा-' इति
पाठा० ।।