________________
चन्द्रराजचरित्रम्
आगतं तं जगादाऽथ, 'श्रेष्ठिन् ! कार्यं कुरुष्व मे । सचिवांस्त्वमुपादाय, सिंहलं नगरं व्रज ।। २२१ ॥
तत्र भूपानुमत्या त्वं, सचिवेभ्यो नृपाङ्गजम् । दर्शयित्वा यदि भवेद्, रूपं मत्कन्यकासमम् ।। २२२ ।। तदा श्रीफलदानेन, विवाहदिननिश्चयम् ।
कृत्वाऽऽगच्छोपकारोऽयं, विस्मर्येत न ते मया' ।। २२३ ॥ युग्मम् स उवाच 'कथं राजन्नेवं प्रार्थयते भवान् । सर्वं करिष्ये त्वद्वाक्यं किं पुनः स्वनृपाश्रयम् ।। २२४ ।। यथा समुद्रजा - विष्ण्वोर्गिरिजा कामवैरिणोः । पुलोमजादिवस्पत्यो- रेतयोः
"
सङ्गमस्तथा' ।। २२५ ।।
इति श्रेष्ठिवचः श्रुत्वा, सम्मानसहितं तदा । चतुभिर्मन्त्रिभिः सार्धं, विससर्ज महीश्वरः ।। २२६ ।। ग्रामनगरारण्यपर्वतांश्च सरांसि च । विलोकयन्तः सम्प्रापु-र्नगरं सम्प्रापु-र्नगरं सिंहलाभिधम् ।।२२७ ।। गत्वा स्वभवनं श्रेष्ठी, सम्भृतिं परिगृह्य च । स्नापयित्वा भोजनानि, कारयामास भक्तितः ।। २२८ ।। सुविश्रान्तान् समालोक्य, सन्ध्याकाले च तैः समम् । कनकरथभूपस्य, सभामाप विशालधीः ।। २२९ ।। द्वारे संस्थाप्य ताञ्छ्रेष्ठी, स्वयं राजगृहं ययौ । उपायनं समर्प्यऽथ, प्रणनाम महीश्वरम् ।। २३० ।।
१. 'सत्कारस्य सामग्रीम्' इति टि० ।। २. 'श्रीस्वर्णरथ-' इति पाठा० ।।
७०