________________
सर्गः - २ 'पान्थ ! वैदेशिकाऽजस्त्रं', देशाद्देशान्तरं व्रजन् । आश्चर्यजनकं किञ्चि-दपश्यस्तर्हि तद्वद' ॥२११ ॥ अथाऽञ्जलिं विधायोचे, 'शृणु पृथ्वीपुरन्दर ! । सिन्धुदेशे सिंहलाख्यं, नगरं हि समृद्धिमत् ॥२१२ ॥ तत्र स्वर्णरथो नामा, राजाऽस्ति सर्वशक्तिमान् । तस्याऽस्ति तनयः श्रीमान्, कनकध्वजनामकः ॥२१३ ।। न तस्य रूपसदृशो, विद्यतेऽपि जगत्त्रये । तं राजा स्थापयत्युच्चैः, सुरङ्गायां सदैव हि ।।२१४ ।। न तं सूर्योऽपि वाऽपूर्व, द्रष्टं शक्नोति कर्हिचित् । ततश्च कोऽपि नो तस्य, स्वरूपं दृष्टवान् जनः ।।२१५ ॥ इत्येवाऽऽश्चर्यजनकं, श्रुतं तत्र मया प्रभो !' । इति श्रुत्वा विसृज्यैनं, राजा नगरमीयिवान् ।।२१६ ।। समाहूय च तत्कालं', वचनं पथिकस्य तत् । मन्त्रिणे कथयामास, दुहितृवरलिप्सया ॥२१७ ।। उवाच सचिवः श्रुत्वा, 'स्वामिञ्छ्वणमात्रतः । विश्वासो न विधातव्यो, विना प्रत्यक्षदर्शनम् ॥२१८ ।। अतः स्वसेवकः कश्चिद्, गत्वा पश्यतु तं वरम् । आगत्य तस्य रूपं यत्, तद् विज्ञापयतु प्रभुम् ।।२१९ ।। पश्चात् कन्याप्रदानस्य, विचारः क्रियतामिति । सचिवस्य वचः श्रुत्वा, राजा श्रेष्ठिनमाह्वयत् ॥२२० ।। १. 'वैदेशिकोऽपि पथिको' इति पाठा० ।। २. 'अद्भुतम्' इति टि० ।। ३. 'परन्तु' इति पाठा० ।। ४. 'हर्षमवाप्तवान्' इति पाठा० ।। ५. 'राजा नगरमागत्य' इति पाठा० ।।