________________
६८
चन्द्रराजचरित्रम्
राजोवाच 'कुमारीयं वरयोग्याऽस्ति सम्प्रति । यदि योग्यो वरोऽस्याः स्यात्, तन्मे मोदो भवेन्महान् । २०१ ॥
न चाऽन्यः कोऽपि जगति, वरोऽस्ति तत्समः खलु । यदि ते सम्मतिस्तर्हि तस्मै दद्यां निजाङ्गजाम्' ।। २०२ ।। इति राजवचः श्रुत्वा, प्रोचे सचिवशेखरः । 'इत्थं वैदेशिकोक्त्या त्वं, कथमुत्कोऽसि भूपते ! ।। २०३ ।।
स्वीयं वर्णयते को न, साधु वाऽसाधु मानवः । न कोऽपि डाकिनीमाह, लोको हि निजमातरम्' ।। २०४ ।। सर्वेषां प्रियतामेति, निजदेशस्य कण्टकम् । यथा तथा विदेशस्थ - मपि पुष्पं न सुन्दरम् ।। २०५ ।। वैदेशिकोत्तौ नो तस्मादा-स्था कार्या विचक्षणैः । असाधु कीर्त्यते यत्तत्, न स्याद् विश्वासकारणम्' ।। २०६ ।। एवं मन्त्रिवचः श्रुत्वा, राजा हृष्टतरोऽभवत् । विसृज्य प्रेमलामागान्मृगयायै क्षितीश्वरः ।। २०७ ।। चतुरङ्गबलः पश्चान्मन्त्री च वाजिवाहनः । अन्वगाद् बहुशो जन्तून् जघान नृपतिर्वने ।। २०८ ।। श्रान्तो भूपो घनच्छाया - जटिलं हि सरोवरम् । दृष्ट्वा तत्र समागच्छद्, विश्रामाय त्वरान्वितः ॥ २०९ ॥ इतः कोऽपि धनी श्रेष्ठी, पानीयं पातुमागतः । पीत्वा जलं नृपं नत्वा, विनयात् समुपाविशत् ।। २१० ।।
१. 'तन्मे स्नेहस्य भाजनम्' इति, 'तन्मे प्रीतिकर भाजनम्' इति च पाठा० ।। २. ' स्वमातरमिहान्यवान्' इति पाठा० ।। ३. 'यथा तथा विदेशस्थं, स्पृहत्यथ नो सुमम्' इति पाठा० ।। ४. ' - कीर्त्तयेत् तत् किं' इति पाठा० ।।