________________
सर्गः - २
६७
सम्मानं प्राप्य . सदसि, स उपाविशदासने । तावत् समाययौ तस्य, तनया प्रेमलाभिधा ।।१९१ ।। नृपोत्सङ्गे समाविक्षच्चतुःषष्टिकला यथा । पिण्डीभूता तथैवाऽसौ, रराज नृपनन्दिनी ॥१९२ ॥ तां चन्द्रवदनां दृष्ट्वा, किञ्चित्संभिन्नयौवनाम् । उपमानदरिद्राश्च, विस्मयं परमं ययुः ॥१९३ ॥ अथ राजाऽवदत् 'कस्माद्देशात् त्वं समुपागमः? । कस्तत्र राजा ? सर्वं मे, शंस श्रेष्ठिन् ! सविस्तरम्' ॥१९४ ।। 'राजन् ! सिंहलनामाऽस्ति, सिन्धुदेशे महापुरम् । यद् दृष्ट्वाऽगादूर्ध्वदेशं, पाविष्टामरावती ।।१९५ ।। तत्र सर्वगुणोपेतो, राजा स्वर्णरथाभिधः । तस्य कामसमाकारः, पुत्रोऽस्ति कनकध्वजः ॥१९६ ।। यो दृष्टिभयतो राज्ञा, सुरक्षायां निधीयते । न तस्य रूपसौन्दर्यं, 'कुमारावपि प्राप्नुतः' ।।१९७ ।। इति श्रुत्वा महीपालो, हर्षविस्फारितेक्षणः । श्रेष्ठिनं बहुमानेन, दृष्ट्वा तं विससर्ज सः ॥१९८ ॥ 'प्रातः पुनः समागच्छे-रि'त्युक्त्वा निजमन्त्रिणम् । आजुहाव स सद्बुद्ध्या, गीर्वाणगुरुजित्वरम् ।।१९९ ।। तदने कथयामास, कनकध्वजवर्णनम् । यच्छ्रुत्वा न्यगदन्मन्त्री, 'किं तस्य परिवर्णनैः ?' ॥२०० ॥
१. 'अश्विनीकुमारौ' इत्यर्थः ।।