________________
६६
चन्द्रराजचरित्रम् तस्य जन्मदिनादैव, कुष्ठरोंगो बभूव ह । न हि कर्मफलं जातु, विना भोगेन नश्यति ॥१८० ।। रत्नानामाकरे वृद्धि-र्यथा भवति नित्यशः । तथा भूमिगृहे राज-नन्दनो ववृधेतराम् ॥१८१ ।। अनेकदेशादादाय, रत्नानि द्युतिमन्ति च । राजानः समुपाजग्मू, राजपुत्रदिदृक्षया ॥१८२ ।। तस्मै मया कथ्यते स्म, 'रूपमप्रतिमानुषम् । कुमारस्याऽस्ति, यन्न, स्याद् देवराजात्मजेऽपि तत् ॥१८३ ।। अतः कस्याऽपि नो दृष्टि-दोषः सज्जतु तेन सः । सुरङ्गायां स्थापितोऽस्ति, नाऽतस्तद्दर्शनं भवेत्' ॥१८४ ।। इति मे वचनं सत्यं, मन्यस्वाथ पृथग्जनाः । नागरा अप्यवोचन्त, 'कुमारस्याऽङ्गसौष्ठवम् ।।१८५ ।। अहो कुमारो धन्योऽस्ति, यस्य रूपदिदृक्षया । उदेति सूर्यस्तन्नाऽऽप्य, पुनरस्तं प्रयाति हि' ।।१८६ ।। उत्तमस्य पदार्थस्य, यलतो गोपनं किल । शास्त्रेऽपि कथितं तस्माद्, गोप्यते राजनन्दनः ॥१८७ ॥ इत्थं 'देशे विदशेऽपि, किंवदन्ती व्यजृम्भत । अन्येषां कुटिलां वृत्तिं, बोद्धं धाताऽपि न क्षमः ।।१८८ ।। इतोऽस्मन्नगरात् कोऽपि, श्रेष्ठी रत्नसमुच्चयम् । व्यापरीतुं ययौ लात्वा, विमलानगरीं वराम् ॥१८९ ।। मकरध्वजाह्वयस्तत्र', भूपः कीर्तिसमुज्वलः । दर्शनायागमच्छ्रेष्ठी, तस्योपायनसंभृतः ।।१९० ।। १. 'देशवि-' इति पाठा० ।। २. 'मकरध्वजनामाऽस्ति' इति पाठा० ।।