SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ सर्गः - ६५ एतर्हि कुपिताया मे, त्वमाराधनमाचरः । तेन ते कुष्ठसंयुक्तः, पुत्रो भावी नरेश्वर !' ।। १७० ।। इत्युक्त्वाऽन्तर्दधे देवी, नृपोऽपि नैरपत्यतः । मूर्ध्नाभिनन्द्य तद्वाक्यं व्रतं पूर्णं विधाय च ।। १७१ ।। आगत्य गेहं देव्यै तद्, देवीवाक्यं न्यवेदयत् । मां चाऽऽहूयाऽब्रवीत् सर्वं नरनाथो यथातथम् ।। १७२ ।। 'राजन् ! पुत्रोऽस्तु विविधैरुपायैः कुष्ठरोगकम् । निवारयिष्ये' तच्छ्रुत्वा, राज्ञी' हर्षमुपागमत् ।। १७३ ।। अथ रात्रौ कोऽपि जीवस्तस्याः कुक्षाववातरत् । राज्ञी गर्भवती जाता, सशस्या पृथिवी यथा ।। १७४ ।। यथा गृध्नुः सुरङ्गायां वित्तं गोपायति' क्षितौ । तथा गर्भभराक्रान्तां, गोपायामास तां नृपः ।। १७५ ।। पूर्णे कालेऽथ राज्ञी सा, सुषुवे कोमलं सुतम् । राज्ञे निवेदयाञ्चक्रु-रन्तःपुरजनास्ततः ।। १७६ । 2 राजा तेभ्यो ददौ वित्त-मीप्सितादधिकं तदा । भेरीमृदङ्गढक्कानां, शब्दोऽभूद् गगनस्पृशः ।। १७७ ।। यथा मेघेन नृत्यन्ति, मयूरा नागरा जनाः I पुत्रोदयात् तथैवाऽमी, ननृतुर्हर्षनिर्भराः * ।। १७८ ।। महेन तस्य राजेन्द्रो, जातकर्मादिकं व्यधात् । कनकध्वज इत्येवं, नाम तस्य चकार च ।। १७९ ।। १. 'देवी' इति पाठा० ।। २. 'गोपयति' इति पाठा० ।। ३. 'गोपयामास' इति पाठा० ।। ४. ‘-रात्' इति पाठा० ।। ५. 'गुप्तेन' इति पाठा० ।। ६. 'कनकध्वज इत्याख्यां, चक्रे तस्य महीश्वर:' इति पाठा० 11
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy