________________
६४
चन्द्रराजचरित्रम् कल्पवल्लीसमीपस्थो, जनो दीनो भवेद् यदि । तदा तदीयलज्जायाः, कारणं तन्महद् भवेत्' ।।१५९ ।। इति तद्वचनं श्रुत्वा, देव्युवाच शुचिस्मिता । 'प्रसन्नाऽहं प्रयच्छामि, पुत्रमेकं नरेश्वर ! ।।१६० ।। किन्त्वस्य विग्रहे राजन् !, कुष्ठरोगो भविष्यति' । इति तस्या वचः श्रुत्वा, राजोवाच शुचाकुलः ॥१६१ ॥ 'नीरोगं तनयं देहि, प्रणतोऽस्मि पुनः पुनः । मदीयां प्रार्थनामेतां, पिपूर्हि कुलदेवते !' ॥१६२ ।। इति राजवचः श्रुत्वा, प्रोवाच कुलदेवता । 'तव पुत्रो भवेदेव, कुष्ठरोगी नराधिप ! ॥१६३ ॥ देवेन्द्रोऽपि' न तत्कर्म, समुल्लङ्घयितुं क्षमः । किं च मद्वचनं राजन् !, नाऽन्यथा भवति क्वचित्' ।। १६४ ॥ राजोवाच 'कथं तुष्टा, कुष्ठिपुत्रमदाः शिवे !' । साऽप्युवाच 'यतो दत्त-स्तत्कारणमदः शृणु ॥१६५ ।। सुरशेखरनामाऽस्ति, पति, गुणभाजनम् । तस्याऽऽवां वनिते देव्यौ, स्वश्च सर्वसुखान्विते ।।१६६ ॥ आवां नवनवं सौख्यं, तेन साकं सदा नृप ! । अभुक्ष्वहि सपल्यौ द्वे, दिव्यं विषयजं भृशम् ॥१६७ ॥ एकदा वञ्चयित्वा मां, सपल्यै हारमुत्तमम् । पतिर्ददौ तन्निशम्य, मम शोको महानभूत् ॥१६८ ।। अथो विवाद आरब्धस्तया साकं महाँस्ततः । पतिस्तस्या व्यधात् पक्षं, तेन दुःखाकुलाऽभवम् ॥१६९ ॥ १. 'इश्वरोऽपि' इति पाठा० ।।