________________
सर्गः २
-
७१
I
अन्यान्यवार्तां कृत्वाऽथ, विमलानगरीभवम् । उदन्तं गदितुं श्रेष्ठी, प्रारेभे नृपसन्निधौ ।। २३१ ।। 'मकरध्वजनामाऽस्ति, नृपः सर्वगुणान्वितः । तदग्रेऽकथयं रूपं, राजपुत्रस्य राजपुत्रस्य विस्तृतम् ॥ २३२ ॥ यत्सौन्दर्यस्य महिम-श्रवणान्नृपतिद्रुतम् । कन्यायाः प्रेमलालक्ष्म्याः, प्रदानं हृदयेऽकरोत् ॥ २३३ ॥ अथ मां बहुमानेन समाहूय न्यवेदयत् । यथा मे कन्यकायाः स, वरः स्यात् त्वं तथा कुरु ।। २३४ ।। मदीयसचिवैः सार्धं गच्छ तत्र यदीप्सितम् । श्रीफलं विधिपूर्वकम् ।। २३५ ।।
राज्ञो भवेत् तदा देयं, अतो राजन्निहाऽऽयाता, द्वारि तिष्ठन्ति मन्त्रिणः ' ।
इति तद्वचनं राजा, उपायनं पुरस्कृत्य, ब्रह्मेव चतुराननः । नवैर्नवैः स्तोत्रपदैः, स्तुवन्ति स्म
श्रुत्वा तानाह्वयल्लघु ।। २३६ ।।
नरेश्वरम् ।। २३७ ।।
अथ तानासने मुख्ये, स्थातुमाज्ञामकारयत् । कुशलप्रश्नतो राजा - प्रीणयत् तान् हि मन्त्रिणः ।। २३८ ।।
'कुतः समागताः ? कुत्र, गन्तास्थ ? कस्य वा कृते ? ' । आ( अ )त्राऽऽगमनतः सर्वं कथयध्वं यथार्थतः ।। २३९ ।
तेषु कश्चित् पटिष्ठः स राजानं विनयान्वितः । जगाद 'शृणु राजेन्द्र !, सौराष्ट्रादागता वयम् ॥ २४० ॥ १. ‘अतो राजन् ! समागच्छ' इति पाठा० ।।