________________
६२
चन्द्रराजचरित्रम् विमुग्धमुग्धहसितं, यो यष्टिकृतवाहनम् । पुत्रं पश्यति तस्यैव, सफलं जननादिकम् ॥१४० ॥ कीर्तिः समेधते सम्यक्, चिराय तनयात् कुलम् । पुत्रिणो वनवासोऽपि, प्रीतये भवति प्रिय ! ।।१४१ ।। पुत्रेण सफला सम्पजन्मादि सफलं ततः । धर्मध्यानादिके वृद्धिः, वार्द्धक्ये जायते ततः२ ।।१४२ ।। स्वामिन् ! पुत्रकृता चिन्ता, वर्तते हृदये मम । कदा पुत्रमुखं दृष्ट्वा, संप्रहृष्यामि भाग्ययुक्' ॥१४३ ।। 'प्राणप्रिये ! शृणु वच-श्चिन्तां जहि मुदं भज । चिन्तयाऽलं बलीयस्ये'-त्यवदन्नृपतिः प्रियाम् ।।१४४ ।। 'मणिमन्त्रौषधीनां च, प्रयोगं कुरु यत्नतः । तेन ते यदि भाग्यं स्यात्, तदा स्यान्नियतं सुतः४' ।।१४५ ॥ इत्थं स्वर्णवतीचित्तं, परिबोध्य महीपतिः । मामाऽऽह्वातुं समादिक्षद्, दासीमेकां तदैव सः ॥१४६ ॥ आगतं मां समस्तं तद्, रायोक्तं विन्यवेदयत् । मया पुनर्विचार्यैवं, न्यवेदि विनयानृपः ॥१४७ ॥ 'तपोऽष्टमं समाधाय, कुलदेव्याः प्रसाधनम् । कुरु तस्याः प्रसादेन, शीघ्रमीप्सितमेष्यसि' ।।१४८ ।। इति संश्रुत्य राज्ञाऽपि, हर्षात् तदुररीकृतम् । धीरैः सदुपदेशान्न, विमुखीभूयते क्वचित् ।।१४९ ।। १. 'भवनादिकम्' इति पाठा० ।। २. 'परपिण्डग्रहोऽप्यस्मै, रोचते परवेश्मनि' इति, 'वार्धक्ये हि सुखं तेन, गतो ग्रासोऽपि लभ्यते' इति च पाठा० ।। ३. 'नाथ ! हे' इति पाठा० ।। ४. 'प्रिये !' इति पाठा० ।।