SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ सर्गः - २ प्रिये ! वद तवाऽऽदेशं, कः करोत्यन्यथा जनः । तस्य शिक्षा विधास्यामि, भूयोऽन्यो न करिष्यति ॥१२९ ॥ हे प्रिये ! धनधान्यादि-रत्नानि मणयस्तथा । नगराणि च देशाश्च, सन्ति किं ते प्रयोजनम् ?' ॥१३० ।। इति प्रियवचः श्रुत्वा, दीर्घश्वासं विधाय सा । 'तव प्रसादात् सौख्यं मे, सर्वमि'त्यवदत् सती ॥१३१ ॥ 'यावत् तव कृपादृष्टि-मय्यस्ति प्राणवल्लभ ! । तावदाज्ञां मदीयां को, विलवयितुमर्हति ॥१३२ ।। पूर्वजन्मकृतात् पुण्यात्, पतिभूतोऽसि मे प्रिय !। इन्द्राण्यपि न तं भोगं, कुरुते यं करोम्यहम् ॥१३३ ॥ यथेष्टं स्वादुभोज्यं मे, मणिरत्नविराजितम् । आभूषणं पट्टवस्त्र-मनासाद्यं न किञ्चन ।।१३४ ।। कस्तूर्यगरुश्रीखण्ड-चन्दनाद्यविलेपनैः । सखीनां हस्तकमलं, न मे शुष्यति कर्हिचित् ।।१३५ ।। इत्यनेकं सुखं मेऽस्ति, तथाऽपि तृणवन्मम । सौख्यस्य साधनं नास्ति, विना पुत्रेण वल्लभ ! ॥१३६ ॥ वने कुसुमितां वल्ली-मिव स्वां जनिमद्य भोः । निष्फलामेव जानामि, तनयाभावकारणात् ॥१३७ ।। अनपत्यस्य लोकस्य, धनिनोऽपि मुखं नहि । आलोकते जनो दुःखं, नास्ति निष्पुत्रतासमम् ।।१३८ । धूलिधूसरसर्वाङ्ग, विप्रकीर्णशिरोरुहम् । इतस्ततश्च धावन्त-मनतिस्पष्टभाषिणम् ॥१३९ ।। १. 'प्रभो !' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy