SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् हस्त्यश्वरथपादातीन्, कः सङ्ख्यातुमिहेश्वरः । सम्पदा किं धनाध्यक्षो, जितोऽगाद् द्यामलक्षितः ।। १२१ ॥ रत्नाकरोऽब्धितां भेजे, रत्नराशिजितो ध्रुवम् । एतद्विद्वद्भयान्नूनं, नामशेषो बृहस्पतिः १ ।। १२२ ।। ६० स्वेष्टभोगनिराकुलाः । दैवमेवात्र कारणम् ।। १२३ ।। यत्र सर्वे धनाधीशाः, दादिद्र्यस्य तु दारिद्र्यं अथैकदा स्वर्णवती उपविष्टा विशालाक्षी, शुशोच तनयं विना ।। १२४ ।। मन्दिरे स्वर्णमञ्चके । दीर्घ श्वासं विमुञ्चन्ती, तनुं नेत्रजलैरलम् । स्नापयन्ती सखीवाक्य - मरुचन्नहि तत्क्षणे ।। १२५ ।। आतपे पतिता मत्सी-वेयं शोकपरायणा । न क्वापि लभते स्वास्थ्यं, सत्यपि स्वास्थ्यसाधने ।। १२६ ।। भुजिष्या काऽपि राजानं, वृत्तान्तं तद् व्यजिज्ञपत् । श्रुत्वैव राजा तत्राऽगात्, प्रियाप्रेमवशंवदः ।। १२७ ।। ' हे चन्द्रवदने ! किं ते, वैमनस्यस्य कारणम् ? | कथमञ्चलपर्यन्त मार्द्रयस्यक्षिजैर्जलैः ।। १२८ ।। १. 'हस्त्यश्वरथपादातीन् सङ्ख्यातुं तस्य गीष्पतिः । शक्नोति न धनाध्यक्ष - समृद्धेः पारमभ्यगात् ।।' इति पाठा०, 'सम्पदा किं नाध्यक्षो, समृद्धेः पारमाप न' इत्यपि च पाठा० ।। इतोऽग्रे - ' पराभवाय शत्रूणां सुरङ्गाऽस्ति तथाऽस्य च । यामालोक्य त्रपाऽऽविष्टा, गङ्गाऽभूत् पूर्ववाहिनी ।।' इति निष्कासितः श्लोको दृश्यते ।। २. ' सर्वे धनाढ्या विद्वांसः, स्वमतस्य समर्थकाः । लोकानां नादृतो वार्धिस्त्रपां भेजेऽत्र पत्तने ।।' इति पाठा० ।। ३. 'अत्यन्तचपला लक्ष्मीः, स्थिरीभूय विराजते । न तत्र कोऽपि शोकानां, पात्रभूतोऽस्ति नागरः । । ' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy