SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ५७ सर्गः - २ परोपकारचुञ्चस्त्वं, त्वत्समो न दयापरः । यथाऽहं कथयामि त्वां, प्रसद्य मयि तत् कुरु' ।। ९२ ।। अथोवाच महीपालः, 'प्रोक्तमेवं कथं त्वया ? ।। कर्णाकर्णि श्रूयते यत्सिंहलाधिपतेः सुतः ॥ ९३ ।। प्रेमलां परिणेता तत्, कथं न परिणेष्यति ? । कुमारस्य वधूः सेति, जगजानाति तत्र किम् ॥ ९४ ।। एवं कपटकार्यं मां, कर्तुं योजयसे वृथा ?' । इति श्रुत्वाऽवदन्मन्त्री, 'शृणु चन्द्र ! वचो मम ।।१५।।(कलापकम्) पूर्वकर्मविपाकेन, कुष्ठी नृपतिनन्दनः । अयं भेदो न कुत्राऽपि, प्रकटोऽस्ति कदाचन ॥ ९६ ॥ दैवयोगेन' तस्याश्च, परिणेता नृपाङ्गजः ।। परन्त्वयं तवैवाऽऽस्ते, हस्ते परिणयोत्सवः ।। ९७ ॥ हे राजन् ! सिंहलेशस्य, लज्जा तव करेऽधुना ।। त्वय्येव महती चन्द्र !, ममाशेति विदाङ्क' ।। ९८ ॥ चन्द्रोऽवदत् 'कथङ्कार-मित्थमज्ञानता कृता । प्रेमलायाः कुष्ठिना हि, कथं परिणयो भवेत् ? ॥ ९९ ।। यूयं सर्वे मिलित्वेवं, कथं जन्म निरर्थकम् ।। अबलाया विधवे तत्, कथं दैवं सहिष्यते ! ॥१०० ॥ १. 'तस्मात् कार्यं त्वया प्रभो !' इति पाठा० ।। २. 'तथा कुरु दयानिधे !।।' इति, 'प्रसीद मे दयानिधे ! ।।' इति च पाठा० ।।३. 'युक्त-' इति पाठा० ।। ४. 'गद्येन श्रूयते श्रीमत्सिंहलाधिपतेः सुतः' इति पाठा० ।। ५. लेखमात्रेण' इति पाठा० ।। ६. 'त्वय्येव महती (भूप !) चन्द्र !, ममाशा परिवर्तते' इति पाठा० ।। ७. '-विधद्ध्वेयदीश्वरस्तत्सहिष्यते ?' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy