________________
५८
चन्द्रराजचरित्रम्
परिणीता कथं
मया ।
मकरध्वजकन्येयं, भवेत् ? सा च कथं तस्मै, देया स्यादतिनिन्दितम् ॥ १०१ ॥ अकस्मात्सङ्गते पुंसि, न न्याय्यो मन्त्रिराट् ! तव' । भारारोपो, न मतिमान्, गर्हितं कुरुते कचित् ॥ १०२ ॥ अयं हा ! कपटाटोपो, मदग्रे सचिवेश्वर ! । किमर्थं कुरुषे मुञ्च, कपटं सरले मयि ॥। १०३ ।। हे मन्त्रिन् ! प्रेमला बाला, लक्ष्मीरिव महीयसी । कुष्ठिना सह सम्बन्धं, तस्या मा कुरु निन्दितम् ॥ १०४ ॥
तत्सर्वं गुप्तमथवा,
को देशस्तव भूपस्य ?, नाम किं ? कुत्र संस्थितिः ? | कथं च तं विधिं मत्त - श्चिकारयिषुरस्ति सः २ ।। १०५ ।। प्रकटं मम सन्निधौ । विनिवेदय यच्छ्रुत्वा, यथायोगं करिष्यते ।। १०६ ।। पश्चाद्धिंसकमन्त्रीश-श्चन्द्रं वक्तुं मिताक्षरम् । संप्राक्रमत राजाऽपि, सावधानहृदाऽशृणोत् ॥ १०७ ॥ " सिन्धुनद्यास्तटे राजन् ! सदाशय इवाऽद्भुतः । मनोहरः सिन्धुदेशो, वरीवर्ति वरीवर्ति महोन्नतः ।। १०८ ।। गङ्गासिन्धुमहानद्यौ, शोभेते यत्र भूभृताम् । दूरतो दृश्यतां यान्ति, शिखराणि महान्ति हि ।। १०९ ।। सरित्पतिं व्रजन्त्यत्र, सङ्केतं कुरुते सरित् । इतस्ततो भ्रमन्त्यो हि, नावः कुर्वन्ति दूतताम् ।। ११० ।।
१. 'न न्याय्यमपि मन्त्रिराट् ! ।' इति, 'न न्याय्योऽस्ति मन्त्रिराट् ! ।' इति च पाठा० ।। २. 'कथं मे तदनर्थं च कर्तुं तस्य मनोऽभवत् ?' इति पाठा० ।। ३. 'हिंसकनामा मन्त्रीश' इत्यर्थः' इति टि० ।। ४. 'नृपं ' इति पाठा० ।।