________________
चन्द्रराजचरित्रम्
वशीभूतोऽस्मि किं कुर्या - मिदानीं धूर्तसङ्गतः ' । सचिन्तमाकृतेर्ज्ञात्वा', चन्द्रं प्रोवाच भूपतिः ।। ८२ ।। 'अहो चिन्तयसे किं त्वं, धन्यः कोऽपि जगत्त्रये । यः परोपकृतौ स्वं स्वं प्रयुङ्क्ते धरणीपते ! ।। ८३ ।। कः स्वार्थी मिहिरस्याऽस्ति, प्रकाशे ? फलिनः फले । नद्या गोः सरसश्चैव, परोपकृतितोऽपरः ?
४
।। ८४ ।।
५६
परोपकारकरणे, सदृशस्तव भूतले । नास्ति कोऽपि ततो मे त्वमुपकारं कुरुष्व भोः !' ।। ८५ ।।
चन्द्रोऽवदच्छलं त्यक्त्वा, वद कार्यं निजेप्सितम् ।
तच्छ्रुत्वाऽनुभविष्यामि,
कार्याकार्यविवेचनम् ।। ८६ ।।
मन्त्रामग्रामगोत्रं च,
समागमनमत्र च ।
कथं ज्ञातं त्वया सर्वं वद शीघ्रं ममाऽग्रतः ।। ८७ ।। कथं यूयं सचिन्ताः स्थ ?, विवाहोऽद्य च वर्तते । तस्मान्महोत्सवे का ते, चिन्ता सन्तापकारणम्' ॥ ८८ ॥ अथ सिंहलभूपेन, कृतसंज्ञः स मन्त्रिराट् । ऊचे 'हे चन्द्रराज ! त्वं, त्राता चिन्ताब्धितो भव ।। ८९ ।। येन कार्यं न तेनाऽस्ति, गोप्यं किञ्चित् क्वचिन्नृणाम् । अतोऽवधानतो वाक्यं शृणु त्वं मम भूपते ! ।। ९० ।। अस्ति सिंहलभूपस्य कुमारः कनकध्वजः । तस्मै श्रीप्रेमलां लक्ष्मी, परिणीय समर्पय ।। ९९ ।।
१. ' इति चिन्तितमालोक्य' इति, 'विमृशन्तमिदं दृष्ट्वा' इति, 'विचारयन्तं तं दृष्ट्वा' इति च पाठा० ।। २. 'कस्माद् धन्यः' इति पाठा० ।। ३. 'यः परोपकृतावात्मा-नंप्रयुङ्क्तेऽवनीतले' इति पाठा० ।। ४. 'नाऽन्यः' इति टि० ।। ५. 'अतो न गोपनीयं त्वन्न, नटी हीमती क्वचित्' इति पाठा० ।।