________________
सर्गः
-
विनीतश्चन्द्रभूपालं, प्रणम्य निजमासनम् । अधिष्ठाय नरेन्द्रं तं, नरेन्द्रं तं कौटिल्यादवदल्लघु ।। ७१ ।। 'सुप्रभाता निशा मेऽद्य, सफला शकुनावली ।
येन मे लोचनपथं समायातोऽसि भूपते ! ।। ७२ ।। विनयं मम भूपस्य, कथं नाऽऽद्रियसे प्रभो ! । अलीकमुक्त्वा स्वो वंशः, कथं निह्वयते त्वया ।। ७३ ।। मुग्धबालमिव' त्वं हि, कुतो वञ्चयसे नृपम् । सत्यं वदामि चन्द्रस्त्व-माग्रहं मुञ्च निष्फलम् ।। ७४ ।। शृङ्खलाबद्धवत्त्वं तु', कथं यास्यसि मेऽग्रतः । आभानगरभूपाल !, बहव्याशा त्वयि विद्यते ।। ७५ ॥ देवीवचनतो ज्ञातं, तव सर्वं कुलादिकम् । अतश्छलं विहायाऽऽशु, प्रतिपद्यस्व मे वचः ।। ७६ 11 दीपा निष्प्रभतां याताः पाण्डुतामगमच्छशी । प्रभातकल्पा रजनी, जाताऽऽभापुरपालक !' ।। ७७ ।। इति मन्त्रिवचः श्रुत्वा, जगाद नृपतिस्ततः । 'वद चन्द्रेण ते कार्य-मस्ति किं यत्करोम्यहम् ' ।। ७८ ।। इति तन्निश्चयं बुद्ध्वा सिंहलाधिपतेस्तनुः ।
,
कदम्बपुष्पवन्मोद-पुलकाङ्कुरिताऽभवत्
।। ७९ ।।
?
५५
,
अथाऽवदन्नृपं मन्त्री, 'चन्द्रोऽयं शोकनाशनः । अतो लज्जां विहायाऽमुं, स्वकार्यं विनिवेदय' ।। ८० ।। इति मन्त्रिवचः श्रुत्वा, चन्द्रश्चिन्ताकुलोऽभवत् ।
'किं कार्यं काऽत्र लज्जा स्यात् ?, किं वा स्यान्मम यत्नतः ? ।।८१ ।।
4
१. 'गर्भरूप इव' इति पाठा० ।। २. शृङ्खलाबद्धपादोऽसि' इति पाठा० ।। ३. ' - ऽहं' इति पाठा० ||