SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ५४ चन्द्रराजचरित्रम् इत्थं विनयसम्पन्नं, सिंहलाधिपतेर्वचः । श्रुत्वा चन्द्रोऽवदद् दन्त-प्रभोद्योतितदिङ्मुखः ।। ६० ॥ 'मयि चन्द्रभ्रमं कृत्वा, कथं सम्मानमीदृशम् । करोष्यहं कोऽपि राज-नस्मि वैदेशिको लघुः ॥ ६१ ॥ प्राज्ञोऽसि त्वं कथं भ्रान्तिं, करोषि, वद, ते मया । सङ्गमः क्वाऽभवच्चन्द्रः, क्व च पूर्वदिशापतिः ॥ ६२ ॥ अहं क्व क्षत्रियशिशुः, कदर्थयसि मां कुतः ? । संसारेऽस्मिन्ननेकोऽस्ति, समानाऽऽकृतिको नरः ।।६३ ।। युग्मम् प्रमाणं नाऽऽकृतिः तस्माद्, गुणो भवति भेदकः । यथा कर्पूरलवणे, बकहंसौ पिकद्विकौ' ॥ ६४ ॥ श्रुत्वेदं वचनं तस्य, सिंहलाधिपतिस्ततः । प्रोवाच 'शृणु भूपाल !, च्छलं सम्प्रत्यसाम्प्रतम् ।। ६५ ।। आकृत्यैवाऽनुमीयन्ते, प्रकारा भुवने सताम् । न हि तुम्बीफलं जातु, जले मज्जति यत्नतः ॥ ६६ ॥ न हि कस्तूरिकामोदो, गोपनेन सहस्रशः । गोपाय्यते क्वाऽपि, राजनुद्यन् रविरिवाम्बरे ।। ६७ ॥ त्वं चिरान्मम राजेन्द्र !, मिलितोऽसि कुतः पुनः । आत्मानं निषेऽकाण्डे, प्रसन्नो भव सम्प्रति' ।। ६८ ॥ यावदेवं वदत्येव, तावत् कपटनीरधिः । कदाग्रही समागच्छद्, हिंसकः सचिवाग्रणीः ॥ ६९ ॥ जलं स्थलं साधयति, प्रपञ्चविधियोगतः ।। दिवानिशं स एवाऽस्य, व्यापारः प्रथितः क्षितौ ॥ ७० ॥ १. '-किन्तु, गुणः सर्वत्र पूज्यते' इति पाठा० ।। २. '-स्रधा' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy