________________
सर्गः - २ इत्थं चन्द्रं प्रशस्याऽसौ, सिंहलद्वीपभूपतिः । प्रेम्णा सिंहासनस्याऽर्द्ध, समुपावेशयनिजे ॥ ५२ ॥ बह्वादरेण चन्द्रोऽपि, समध्यष्ठान्नृपासनम् । भाग्यवान् क्व न 'सम्मान-माप्नोति तनुधारकः ? ॥ ५३ ॥ सिंहलाधिपतिश्चन्द्रं, कुशलं स्म प्रपृच्छति । 'मम त्वं शेखरः किं वा, प्राणाधीशोऽसि भूपते ! ॥५४ ॥ चातको यद्वदम्भोद-मब्जं यद्वच्च भास्करम् । तथा त्वां नरनाथाऽहं, दिदृक्षुः सर्वदाऽभवम् ॥ ५५ ॥ स्वेच्छयाऽऽगमनेना-ऽद्याऽनुग्रहीतुं हि मां प्रभो ! । अलङ्करोष्यमुं देशं, राजचक्रशिरोमणे ! ॥ ५६ ॥ तव संदर्शनादद्य, महानन्देन मोहितः ।। नोपचारमहं जाने, तत्क्षमस्व महीपते ! ॥ ५७ ॥ पुष्पपत्रादिका भि-र्यथा तुष्यन्ति देवताः । तथा मयि महाराज !, तुष्य सम्मानलेशतः ॥ ५८ ॥ हस्त्यश्वरथरत्नाना-माकरोऽसि यतस्ततः । । तस्य विश्राणनं नैव, पर्याप्तं तव तुष्टये' ॥ ५९ ॥ १. 'संभोग-' इति पाठा० ।। २. इतोऽग्रे- 'सौभाग्यशालिनः पुंसः, सुलभः स पदे पदे । निधीनां दर्शनं तद्वच्छत्रुमित्रायते तथा ।।' इति श्लोको दृश्यते ।। ३. 'गौर्वत्सं यद्वदिच्छति' इति पाठा० ।। ४. 'अकिञ्चनौ हि पितरौ, केवलं प्रेमतः शिशुम् । संलालयत एवं मे, तुष्य सम्मानलेशतः' इति पाठा० ।। ५. 'विश्राण्य कोऽपि किं कुर्यान्नवाराधनमत्र ते ।।' इति पाठा० ।।, इतोऽग्रे"यदि मद्विषयं राजन्नायास्त्वं तर्हि ते निजम् । राज्यं वा नगरं वाऽपि, देशं दद्यामहं ध्रुवम् ।। वैदेशिको भवान् यद्वत्, तथैवाऽहमपि प्रभो! । इति ज्ञात्वाऽखिलां राजंत्रुटि मे क्षन्तुमर्हसि ।।" इति निष्कासितौ श्लोकौ दृश्यते।।