________________
चन्द्रराजचरित्रम्
५२
इति निश्चित्य तान् राजा - कथयद् 'भो यथा तव । कथयिष्यति भूपालो, विधास्येऽहं तथा खलु' ।। ४२ ।।
अथ ते भूपतिं माना-दग्रेकृत्वा प्रहृष्टवत् । सर्वद्वारस्थिताः सर्वे, चेलुर्नृपतिपृष्ठतः ।। ४३ ।।
द्वारे निधाय तं भूपं, निजभूपमजिज्ञपन् । 'राजन् ! समागतश्चन्द्रो, द्वारि तिष्ठति साम्प्रतम्' ।। ४४ ।।
इति दूतवचः श्रुत्वा, सिंहलेशो महोत्सवम् । कृत्वा स्वमन्दिरं तूर्ण - मानयच्चन्द्रभूपतिम् ।। ४५ । "वीरसेनमहीपाल - कुलपाथोजभास्कर ! तवाऽऽगमेन भूपाल !, कृतार्थोऽस्मि पुनः पुनः ।। ४६ ।।
1
तव संदर्शनायाऽहं भृशमुत्कण्ठितोऽभवम् ।
तदद्य दैवयोगेन लेभे मनसि चिन्तितम् ।। ४७ ।।
•
1
यथा दूरस्थितः सूर्यो, बोधयत्यब्जमण्डलम् । तथा दूरस्थितोऽपि त्वं, हृत्कञ्ज' फुल्लयस्यदः ।। ४८ ।। क्व चन्द्रः ? क्व चकोरोऽसौ ?, व मेघः ? क्व च बर्हिणः । परन्तु प्रेमवशतः सङ्गमो निश्चलस्तयोः ।। ४९ ।। हृष्यत्येव सुनिश्चितम् ।
सम्बन्धिदर्शनाच्चेतो,
न तत्र महदाश्चर्यं तदभावेऽद्भुतं हि तत्' ।। ५० ।। चन्द्रोदयतो वारि - राशेर्हर्षः
प्रजायते 1
न विस्मयोऽत्र भूयोऽपि, कुमुदिन्याः प्रकाशनात्" ।। ५१ ।।
१. 'हृत्पद्मम्' इति टि० ।। २. 'न तत्र चित्रतश्चित्रं, तदभावेऽपि यद् भवेत्' इति पाठा० ।। ३. 'उदधिसुतत्वाच्चन्द्रस्य' इति टि० ।।