SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ५१ सर्गः - २ तथा त्वां भूप ! जानीमः, सत्यं वद ममाऽधुना । आगतोऽसि तथैवत्वं, यथाऽस्मान्हसिन्यवक्' ।।३१।। युग्मम् ततश्चन्द्रोऽवदत् 'त्वं हि, सङ्केतं प्रकटीकुरु' । तदाऽसौ सेवको बद्धा-अलिरेवं व्यजिज्ञपत् ॥ ३२ ।। "एकदा सिंहलेशो मां, रहस्येवमवोचत । हे दूत ! त्वं पूर्वराज-द्वारे तिष्ठ निराकुलः ॥ ३३ ॥ यामे व्यतीते यामिन्या, आगच्छेतां हि ये स्त्रियौ । तत्पश्चात् पुरुषः कश्चि-दागमिष्यति निश्चितम् ॥ ३४ ॥ चन्द्रं भणित्वा सत्कार्यः, स जनो नतिपूर्वकम् । मम पार्वं ततो नून-मानेतव्योऽञ्जसा त्वया ॥ ३५ ॥ इति शासनमादाय, सावधानमवस्थितैः । दृष्टोऽस्यस्माभिरेतर्हि ललनाद्वयपृष्ठगः(-तः) । ३६ ।। इति त्वां चन्द्रनामान-माभानगरभूपतिम् । जानामि निजभूपाल-सङ्केताद् राजशेखर ! ।। ३७ ।। इति ज्ञात्वाऽविलम्बेन, सिंहलस्य महीभुजः । आवासं चल भूपाल !, देवराजोपमस्य हि' ॥ ३८ ॥ इत्थं सेवकसद्वाक्य, राज्ञा मनसि चिन्तितम् । 'अहो मातुर्भयं तादृग्, राज्ञोऽस्य च महाऽऽदरः ॥ ३९ ॥ एकाकिना मयेदानी, किं कर्तव्यं ? न सेवकैः । बुध्यते बोध्यमानैर्हि, प्राकृतैः प्राकृतैरिव । ४० ।। अत एतैः समं नोच्चैः, क्षमं हि विचिकित्सनम् ।। यथा व्यवहरेद् यश्च, तेन कार्यं तथैव हि ॥ ४१ ।। १. 'तथैव हि' इति पाठा० ।। २. -रेतस्मिल्ल-' इति पाठा० ।। ३. 'निराकरणम्' इति टि० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy