________________
५०
चन्द्रराजचरित्रम् त्वया सह महाराज !, भर्तुर्भेऽस्ति प्रयोजनम् । अतो विज्ञापनां स्वामिन् !, गृहाण मम साम्प्रतम् ॥ २० ॥ राजा दध्यौ 'वीरमती, शृणुयाद् यदि मेऽभिधाम् । तदा कष्टं भवेत् तस्माद, विवादो नहि युज्यते' ॥ २१ ॥ इति सञ्चिन्त्य तद्वाक्य-मवधार्य चचाल सः ।। अनेकलोकरचित-नमस्कारपुरस्सरम् ॥ २२ ॥ द्वितीयद्वारमागच्छत्, तत्राऽपि नियतैर्जनैः । 'आगच्छ चन्द्रभूपाले'-त्यूचे नतिपुरस्सरम् ॥ २३ ॥ 'सततं तव मार्गस्य, मम भूपः प्रतीक्षकः । त्वयि स्वातीजले राजन् !, किमु नो चातकायते ? ।। २४॥ चक्रदर्शनतो यद्वत्, सिद्धिः स्याच्चक्रवर्तिनः । तद्वत् तवाऽऽगमेनैवा-ऽस्माकं कार्यं प्रसेत्स्यति' ।। २५ ।। राजोवाच 'यथा शुक्तौ, रजतभ्रान्तिभागिनः । जिघृक्षवस्तथा चन्द्रं, मां बुद्ध्वेत्थं प्रभाषसे ।। २६ ॥ एकविद्यालयच्छात्रा, यूयं निःसंशयं मया । ज्ञायन्ते तव भूपालस्तवैव सदृशो भवेत् ? ॥ २७ ॥ तव राज्ञो मया साकं, जातुचिन्नहि सङ्गतिः । न च कार्यं भवेद् यूयं, सर्वे धूर्ता न संशयः ॥ २८ ॥ अविवेकस्य शिक्षेयं, प्राप्ता युष्माभिरीदृशी । जाने चन्द्रं भणित्वैवं, वञ्च्यन्ते निखिला जनाः' ।। २९ ॥ इति श्रुत्वाऽगदंस्तेऽपि, 'वयं सिंहलभूपतेः । मनोनुगाः सेवकाः स्मो-ऽस्मान् राजाऽशिक्षयद् यथा ॥३०॥