________________
४९
सर्गः - २ ते निशम्य वचस्तस्य, जगदुस्तं नताः पुनः । 'कथं वञ्चयसे राजंस्त्वं हि चन्द्रमहीपतिः ॥ ९ ॥ जाज्वल्यमानः सवितो-दीयमानः कुतः पुनः ।। आच्छादनीयो भविनां, सहस्रकिरणः क्षितौ ? ॥ १० ॥ कस्तूरिकाया आमोदो, न कथञ्चिजनैरपि । गोपाय्यते वापि राजंस्तथा रत्नाकरोऽथवा' ॥ ११ ॥ इत्युक्त्वा सेवकः कश्चित्, तं जग्राह कराम्बुजे । उवाच राजा 'हे भ्रात-र्मुञ्च मां पथिकं लघु ॥ १२ ॥ यूयं सुप्तोत्थिताः स्वप्ने, दृष्ट्वा तं चन्द्रभूपतिम् । मां मन्यमाना रुन्ध्वं यत्, तन्न सम्प्रति साम्प्रतम् ॥ १३ ।। अनेके चन्द्रसदृशा, लोकाः सन्ति महीतले । कथं स्वनाम मतिमान्, गोपयिष्यति निष्फलम् ॥ १४ ॥ अकारणं किमर्थं मां, गृह्णासि शठ ! ते यदि । द्वारदेयं भवेद् ब्रूहि, दास्ये तेऽहं न संशयः ॥ १५ ॥ व्यर्थं कदर्थयसि मां, मम माताऽसहायिका । वने गतस्य मार्ग मे, नूनं मार्गयते भृशम्' ॥ १६ ॥ स सेवकों'ऽवदत् स्वामिन्नतिदूरे गृहं तव ।। इतोऽस्ति गोपयस्येवं, कथाङ्कारं निजं वपुः ॥ १७ ॥ त्वादृशा यदि वक्ष्यन्ति, मृषा वद कथं ततः । धरिष्यत्यचला भारं, मेघो वृष्टिं विधास्यति ॥ १८ ॥ त्वादृशानां महाराज !, सेवातो वेद्मि सर्वशः । यादृशं सेवते लोकस्तादृशं फलमश्रुते ॥ १९ ॥ १. 'प्रतीहारो-' इति पाठा० ।।