SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ शासनसम्राटपूज्याचार्यश्रीविजयनेमिसूरीश्वरपट्टधरपूज्याचार्यश्रीविजयविज्ञानसूरीश्वरपट्टधरप्राकृतविशारदपूज्याचार्यश्रीविजयश्रीकस्तूरसूरिप्रणीते चन्द्रचरित्रे द्वितीयः सर्गः अथ चन्द्रमहीपालो, विमलायाः पुरः पुरः । तत्रस्थैः सेवकैः कैश्चिद्', निरैक्षिच्छन्नवेषधृक् ॥ १ ॥ ते सेवकास्तु' विनयस्तं प्रणेमुः पुनः पुनः । 'अहो चन्द्रमहीपाल !, विजयस्व गुणाकर ! ॥ २ ॥ राजंस्तवाऽऽगमेनाऽद्या-ऽस्माकमाधिः क्षयं गतः । चिराद् द्वितीयेन्दुवत् त्वां, मार्गमाणा अभूम हि ॥ ३ ॥ कीयुद्भासितदिक्चक्र !, चन्द्रराज ! चल प्रभो !।। सिंहलद्वीपभूपाल-सभां शीघ्रमलङ्करु' ॥ ४ ॥ तत्सेवकानां वचनं, श्रुत्वा दध्यौ स चेतसि । 'परचित्तज्ञवन्मां ही !!, कथङ्कारमिमे विदुः ॥ ५ ॥ नामग्राहं कथं चाऽत्र, माममी समबोधयन्' । इति चिन्तासमाक्रान्तः, प्रोवाच क्षितिनायकः ॥ ६ ॥ 'हे सेवकाः' ! कथं यूय-मेकनाम्ना भ्रमं गताः । कश्चन्द्रराजश्चन्द्रस्तु, खे भात्यन्यः स कः क्षितौ ? ॥ ७ ॥ असम्भाव्यां कथं यूयं, घटनां कुरुथ स्फुटम् । मार्ग दत्त वयं यामो, निजकार्यस्य सिद्धये' ॥ ८ ॥ १. 'प्रथमद्वारपालैः स' इति पाठा० ।। २. 'ते द्वारपाला' इति पाठा० ।। ३. 'दौवारिकानां' इति पाठा० ।। ४. 'दौवारिकाः' इति पाठा० ।।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy