________________
४७
सर्गः - १ यावतेति ब्रुवाणे ते, अभूतां भुवि तावता । चूतवृक्षः समागत्या-धितष्ठौ वचिदन्तरम् ।।४५२ ।। उभे वृक्षात् समुत्तीर्य, चेलतुर्नगरी प्रति ।। राजाऽप्यलक्षितस्ताभ्यां, पृष्ठतोऽन्वसरत् तयोः ।। ४५३ ।। तादृशीं जननीविद्यां, विलोक्य धरणीपतिः । भयं लेभे न 'धीराणां, जायते भीः कुतोऽपि हि' ॥ ४५४ ॥ यथा यथा जग्मतुस्ते, राजाऽन्वातीत् तथा तथा । श्वश्रूर्वधूकरं धृत्वा, विमलापुरमाविशत् ।।४५५ ।। विचित्रशोभां पश्यन्त्यौ, पाणिग्रहणमण्डपम् । आसेदतुर्नृत्यगीत-वादित्रादिविभूषितम् ॥४५६ ।। अनेकमङ्गलैः शश्वद्, वर्धमानं विलोक्य ते ।। आनन्दमग्नहृदये, श्वश्रूवध्वौ बभूवतुः ॥४५७ ।। इतो राजाऽपि नगरी-शोभामालोकयन् शनैः । दूरतो दुष्प्रवेशं तत्पुरद्वारं व्यलोकत' ॥४५८ ॥
(स्रग्धरावृत्तम्) इति बहुविधशोभा-ऽऽलोकनालोलचित्तो
नृपतिवरकिरीट-स्पृष्टपादारविन्दः । युवतिजनविरुद्धं मातृ-वध्वोः स वृत्तं
समनुभवितुकाम-स्तत्पुरद्वारमाप ।। ४५९ ।। इति श्रीकस्तूरसूरिविरचिते श्रीचन्द्रचरित्रे
प्रथम सर्गः समाप्तः १. 'राजाऽप्याजीत्' इति पाठा० ।। २. “निजाभीष्टं पूरयितुं, पुरद्वारमुपागमत्' इति पाठा० ।। ३. '-पुरान्तर्विवेश' इति पाठा० ।।