________________
४६
चन्द्रराजचरित्रम् अथ द्वयोस्तयोरित्थं, गच्छन्त्योोमवर्त्मना । विमलानगरीपार्श्वे, समागात् तरुरञ्जसा' ॥४४१ ।। राज्ञी गुणावली तत्र, रत्नपल्लवसञ्चितम् । प्रफुल्लपुष्पशोभाढ्यं, वनमैक्षत शोभनम् ॥४४२ ।। सुषमामवलोक्यैव, यस्येन्द्रस्यापि नन्दनम् । लज्जापराधीनतया, परलोकमशिश्रियत् ।।४४३ ।। केतकी चम्पकाशोक-जातीशेफालिकादयः । मल्लिकाकरवीराद्याः, पुष्पद्रुमलता बभुः ॥४४४ ।। तारका धरिणीपृष्ठे-ऽवतीर्णा इव रेजिरे । सुगन्धभारशिथिलः, सरीसर्ति समीरणः ॥४४५ ।। चञ्चच्चन्द्रकरस्पर्श-समुज्वलतरः शुचिः । कमलामोदसंसर्गी, वरीवर्ति जलाशयः ।।४४६ ।। मन्ये नभश्चन्द्रमसा, कृतस्पर्धा महीतले । जलविम्बच्छलाद् हास्यं, चरीकर्ति पर: शशी ।।४४७ ।। विमलानगरीमित्थं, विलोक्य क्षितिपाङ्गना । कैलासो रोहणोऽयं वा, वरीवर्तीत्यशङ्कत ॥४४८ ।। अनेकरत्नरचिता, आढ्यलोकाश्रिता अमी । प्रासादा अमरावत्या, जरीहर्ति परां द्युतिम् ।।४४९ ।। मन्दिरस्थाः प्रदीपास्ते, चन्द्रं द्रष्टं पुरस्य हि । नेत्राणीव विभासन्ते, हर्षोत्कर्षवशंवदाः ।।४५० ।। 'मातः ! केयं पुरी'त्येवं, पृच्छति स्म गुणावली । ततो वीरमती प्रोचे, 'सैवेयं विमलापुरी' ॥४५१ ॥ १. 'यावद् वार्ता प्रकुरुत, उभे ते कौतुकान्विते । विमलानगरीपार्थे, तावदाया[गा]त् स वृक्षराट् ।।' इति पाठा० ।।