________________
सर्गः १
चतुर्थं च महेन्द्रेश, ब्रह्मेन्द्रो भुवनाधीशः,
उद्धारमथ पञ्चमम् । षष्ठोद्धारमकल्पयत् ।। ४३० ।।
सप्तमं सगरो राजा, भूषट्खण्डाधिनायकः । उद्धारमष्टमं चक्रे, व्यन्तराधिपतिस्तथा ।। ४३१ ।। उद्धारं नवमं चन्द्र-यशा नाम महीपतिः । उद्धारं दशमं चक्रे, चक्रायुधनृपः पुरा ।। ४३२ ॥ एते महान्त उद्धारा, जाताः शत्रुञ्जये दश 1 इतः परेऽपि बहव, उद्धारा नैकधाऽभवन् ।। ४३३ ।। समादिककृतोद्धारा, भविष्यन्त्यत्र भाविनि ! । क्लिष्टकर्मक्षयेणैष, भव्यानां वाञ्छितप्रदः ।। ४३४ ॥ मनोवाक्कायिकैर्योगैः, प्रणामं नियतं कुरु । तीर्थोऽयं भवपाथोधि- समुत्तारणसाधनम्' ।। ४३५ ।। अयं श्रीगिरि र ) नाराख्य- स्तीर्थः परमपुण्यदः । राजीमत्याः पतिः श्रीमान्, नेमिनाथ इहैव हि ।। ४३६ ।। भविता मुक्तिवनिता - परिणेता शुचिस्मिते !
संसक्तं
चरणं ततः ।
कुमुदादिमनोहरम् ।। ४३८ ।।
पुण्डरीकसमोऽयं श्री- पुण्डरीकगिरिः किल ॥ ४३७ ।। ऐरावतगजेन्द्रस्य, कुण्डं गजपदं जातं, द्विलक्षयोजनायामः, समुद्रो यन्नदीपतिः 1 वलयाकारतः पृथ्वीं, परिवृत्याऽवतिष्ठते" ।। ४३९ । इत्थं वीरमती हस्त-संज्ञया तां गुणावलीम् । सर्वं देशं वनं शैलं, सरोऽदर्शयदम्बरात् ।। ४४० ।।
४५
१. 'उद्धारश्चन्द्रयशसो, नवमश्च गुणावलि ! । चक्रायुधस्य सञ्जात, उद्धारो दशमः शुभः ।।' इति पाठा० ।। २. '-रैकसाधनम्' इति पाठा० ।।