SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ४४ चन्द्रराजचरित्रम् धर्मनाथादयस्तत्र, दश तीर्थकरा बभुः । उत्तरस्यां प्राचि वत्से !, वृषभोऽजितसङ्गतः ॥४१९ ॥ विधास्यत्यत्र लङ्केशो, जिनकर्मार्जनं पुनः । जाह्नवी वलयाभाऽत्र, विभाति तटिनीवरा' ॥४२० ।। एवं समेतशिखरं, दर्शयित्वा न्यवेदयत् । प्रणाम भक्तितः पुत्रि !, कुरुष्वेप्सितसिद्धये ।।४२१ ।। आदिनाथो वासुपूज्यो, नेमि-वीरौ च तीर्थपौ । विहायेमान् जिनाः सर्वे-ऽत्र यातारः परं पदम् ॥४२२ ॥ सप्तदश जिनास्तेषु, यावदद्य महाशयाः । मोक्षं प्रापुरिहैव त्रि-जगनाथास्त्रयः पुनः ॥ ४२३ ॥ पुनरावर्तरहितं, मोक्षं प्राप्स्यन्ति सुन्दरि ! । को नो पुनाति स्वात्मानं, दृष्ट्वेमं पर्वताग्रिमम् ॥४२४ ॥ अयं वैभारनामाऽस्ति, पर्वतः सर्वपावनः । अर्बुदाचल एवाऽसौ, भक्त्या तं प्रणमाऽधुना ॥४२५ ॥ अयं सिद्धाचलस्तीर्थात्, सर्वस्माच्च महत्तरः । यस्य स्मरणमात्रेण, पापं दूरं पलायते ।।४२६ ॥ य एतं वीक्षते प्राणी, तस्य कीतिर्जगत्त्रये । न तस्य पुनरावृत्तिः, कदापि खलु जायते ॥४२७ ॥ अनेके पुण्यचरिता, ज्ञानं सम्प्राप्य केवलम् । मुक्तिभाजो बभुवुस्त, इहैव वरवर्णिनि ! ॥४२८ ।। प्रथमं भरतो भूपो, दण्डवीर्यों द्वितीयकम् । ईशानेन्द्रस्तृतीयं च, समुद्धारमकारयत् ।।४२९ ।। १. 'सरिदुत्तमा' इति पाठा० ।। २. 'मुनिसुव्रत-नमि-पार्श्वनाथा एते त्रयः' इत्यर्थः' इति टि० ।। ३. 'इत्थं वैभारशैलोऽपि, समागाद् दृक्पथं तयोः' इति पाठा० ।। ४. 'भरतः प्रथमोद्धारं' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy