________________
४३
सर्गः - १ . करवीरस्य शाखाभि-स्त्रिः प्रहारं विधाय सा । 'विमलानगरी शीघ्रं, दर्शयस्व वरद्रुम !' ॥४०९ ।। युग्मम् इति वीरमतीवाक्यं, श्रुत्वा वृक्षस्तदैव सः । विमान इव देवानामुत्पपात नभोऽङ्गणे ।।४१० ॥ वृक्षस्य कोटरे राजा, लीनः सर्वं व्यलोकत । यथा शरीरे संछन्नो, जीवः पश्यति सर्वतः ॥४११ ॥ स चूतवृक्षो मनसो-ऽप्यतिवेगोऽभिमन्त्रितः । नभोदेशे चलन् क्षीर-समुद्रे पोतवद्' बभौ ॥४१२ ।। अथ वीरमती प्रोचे, "वधु ! पश्य स्वरापगाम् । या पूतनीरसम्पूर्णा, तीर्थभूता विराजते ॥४१३ ॥ पापकन्दसमुच्छेदे, या खनित्रायतेऽनिशम् । स्नानेनाऽत्र यतः पापा, अपि यान्ति पवित्रताम् ।।४१४ ॥ नूनं स्वर्ग प्रयात्याशु, निर्धूयाऽखिलपातकम् । सेयं नीलजला भाति, कालिन्दी सरिदुत्तमा ॥४१५ ।। केशपाशीव या नूनं, पृथिव्याः सम्प्रकाशते । अयमष्टापदाख्योऽस्ति, पर्वतः सिद्धिदायकः ॥४१६ ।। स्वशक्त्यारूढभव्यानां, तत्र श्रीजिनमन्दिरम् । भरतश्चक्रवर्ती यत्, पञ्चरतैरकारयत् ॥४१७ ।। तस्य दक्षिणभागेऽस्ति, सम्भवादिचतुष्टयम् ।। सुपार्थादिजिनेन्द्राश्चा-ऽष्टौ प्रतीच्यां बभासिरे ॥४१८ ।। १. 'नौकावत्' इति टि० ।।, 'प्लववद्' इति पाठा० ।। २. 'पुरीमिमाम्' इति पाठा० ।। ३. 'अलकेयं कुबेरस्य, भातीयं सर्वसम्पदा ।।' इति निष्कासितः पाठो दृश्यते ।। ४. 'पापकन्दपरिच्छेदे, खड्गधारेव राजते । यत्र स्नानेन पापीया-नपि याति पवित्रताम् (यत्र स्नानेन पापिष्ठोऽप्यतिसञ्चितपुण्यवत्।। - पाठा०) ।।' इति पाठा० ।।